चन्द्रस्य शिशिरं नाम नारदस्य सुखोदयम्
क्षेमकं वृषभस्यापि वैभ्राजस्य ध्रुवं तथा
विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह
नामतस्ताः प्रवक्ष्यामि सप्तगङ्गास्तपोधनाः
अमृता सुकृता चैव सप्तैताः सरितां वराः
बहूदका ह्योघवत्यो यतो वर्षति वासवः
शुभाः शान्तभयाश्चैव प्रमुदं शैशिराः शिवाः
वर्णाश्रमाचारयुता प्रजास्तेष्ववधिष्ठिताः
अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी न च
त्रेतायुगसमः कालः सर्वदा तत्र वर्त्तते
देशस्यानुविधानेन कालस्यानुविधाः स्मृताः
सुरूपाश्च सुवेषाश्च ह्यरोगा बलिनस्तथा
प्लक्षद्वीपादिषु ज्ञेयः शाकद्वीपान्तिकेषु वै
दिव्यौषधिफलोपेतः सर्वौंषधिवनस्पतिः
जंबूवृक्षेम संख्यातस्तस्य मध्ये द्विजोत्तमाः
स तत्र पूज्यते स्थाने मध्ये जनपदस्य ह
प्लक्षद्वीपसमेनैव वैपुल्यद्विस्तरेण तु
आनुपूर्व्यात्समासेन शाल्मलं तु निबोधत
शाल्मलेन समुद्रस्तु द्वीपेनेक्षुरसोदकः
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः
प्रथमः सूर्यसंकाशः कुमुदो नाम पर्वतः
द्वितीयः पर्वतश्चात्र ह्युत्तमो नाम विश्रुतः
तृतियः पर्वतस्तत्र बलाहक इति श्रुतः
चतुर्थः पर्वतो द्रोणो यत्र सा वै सहोषधिः
कङ्कस्तु पञ्चमस्तत्र पर्वतः सुमहोदयः
षष्ठस्तु पर्वतस्तत्र महिषो मेघसन्निभः
सप्तमः पर्वतस्तत्र ककुद्मान्नाम भाष्यते
प्रजापतिमुपादाय प्रजाभ्यो विधिवत्स्वयम्
तेषां वर्षाणि वक्ष्यामि सर्पैव तु शुभानि वै
बलाहकस्य जीमूतं द्रोणस्य हरितं स्मृतम्