ब्लक्षद्वीपादिषु त्वेषु सप्त सप्त तु पञ्चसु
प्लक्षद्वीपे तु वक्ष्यामि सप्तद्वीपान् महा बलान्
ख्यायते यस्य नाम्ना तु वर्षं गोमेदसंज्ञितम्
अश्विभ्याममृतस्यार्थमोषध्यो यत्र संभृताः
तत्राचले समुत्पन्नौ पूर्वं नारदपर्वतौ
छन्दमृत्युः पुरा तस्मिन्दुन्दुभिः सादितः सुरैः
पञ्चमः सोमको नाम देवैर्यत्रामृतं पुरा
षष्टस्तु सुमना नाम सप्तमर्षभ उच्यते
वैभ्राजः सप्तमस्तत्र भ्राजिष्णुः स्फाटिको महान्
तेषां वर्षाणि वक्ष्यामि नामतस्तु यथाक्रमम्
चन्द्रस्य शिशिरं नाम नारदस्य सुखोदयम्
क्षेमकं वृषभस्यापि वैभ्राजस्य ध्रुवं तथा
विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह
नामतस्ताः प्रवक्ष्यामि सप्तगङ्गास्तपोधनाः
अमृता सुकृता चैव सप्तैताः सरितां वराः
बहूदका ह्योघवत्यो यतो वर्षति वासवः
शुभाः शान्तभयाश्चैव प्रमुदं शैशिराः शिवाः
वर्णाश्रमाचारयुता प्रजास्तेष्ववधिष्ठिताः
अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी न च
त्रेतायुगसमः कालः सर्वदा तत्र वर्त्तते
देशस्यानुविधानेन कालस्यानुविधाः स्मृताः
सुरूपाश्च सुवेषाश्च ह्यरोगा बलिनस्तथा
प्लक्षद्वीपादिषु ज्ञेयः शाकद्वीपान्तिकेषु वै
दिव्यौषधिफलोपेतः सर्वौंषधिवनस्पतिः
जंबूवृक्षेम संख्यातस्तस्य मध्ये द्विजोत्तमाः
स तत्र पूज्यते स्थाने मध्ये जनपदस्य ह
प्लक्षद्वीपसमेनैव वैपुल्यद्विस्तरेण तु
आनुपूर्व्यात्समासेन शाल्मलं तु निबोधत
शाल्मलेन समुद्रस्तु द्वीपेनेक्षुरसोदकः
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः