पूर्वन्देशांश्च सेवन्ती भित्त्वा सा बहुधागिरीन्
सिकतापर्वतमरुं गत्वा विद्याधरान्ययौ
तासां नद्युपनद्यश्च शतशो ऽथ सहस्रशः
वक्वौकसायास्तीरे तु वनं सुरभि विश्रुतम्
यज्ञोपेतश्च सुमहानमितौजाः सुविक्रमः
कुबेरानुचरा ह्येते चत्वारस्तु समाः स्मृताः
परस्परेण द्विगुणा धर्मतः कामतोर्ऽथतः
मनस्विनीप्रभवति तस्माज्ज्योतिष्मती च या
सरो विष्णुपदं नाम निषधे पर्वतोत्तमे
मेरोः पार्श्वात्प्रभवति ह्रदश्चन्द्रप्रभो महान्
पयोदं तु सरो नीले सुशुभ्रं पुण्डरीकवत्
श्वेतात्प्रवर्त्तते पुण्यं सरयूर्मानसाद्ध्रुवम्
सरः कुरुषु विख्यातं पद्ममीनद्विजाकुलम्
अन्ये चाप्यत्र विख्याताः पद्मामीनद्विजाकुलाः
तेभ्यः शान्ता य माध्वी च द्वे नद्यौ संबभूवतुः
उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः
पूर्वायता महापर्वा निमग्ना लवणाभसि
उदग्याता उदीच्यान्ता अवगाढा महोदधिम्
प्रतीच्यामायतास्ते वै प्रविष्टा लवणोदधिम
आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति
तत्र संवर्त्तको नाम सो ऽग्निः पिबति तज्जलम्
द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम्
यदेतद्दृश्यते चन्द्रे श्वेते कृष्णशशाकृति
इहोदितस्य दृश्यन्ते यथान्ये ऽन्यत्र चोदिते
आरोग्यायुः प्रमाणानां धर्मतः कामतोर्ऽथतः
इत्येषा धारयन्तीदं पृथ्वी विश्वं जगत्स्थितम्
शृणुतेमं यथातत्त्वं ब्रुवतो मे द्विजोत्तमाः
विस्तराद्द्विगुणश्चास्य परिणाहः समन्ततः
तत्र पुण्या जनपदाश्चिरान्न म्रियते जनः
तत्रापि पर्वताः पुण्याः सप्तैव मणिभूषणाः