गन्धर्वकिन्नरान्यक्षान्रक्षोविद्याधरोरगान्
किरातांश्चपुलिन्दांश्च कुरून् सभरतानपि
सुह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च
ततः प्रतिहता विन्ध्यात्प्रविष्टा लवणोदधिम्
प्रावयन्त्युपभागांश्च नैषधांश्च त्रिगर्त कान्
केकरानौष्टकर्णांश्च किरातानपि चैव हि
आमण्डलं समुद्रस्य तिरोभूतांश्च पूर्वतः
सुपथान्पावयं तीह त्विन्द्रद्युम्नसरोपि च
मध्यतोजानकिमथो कुथप्रावरणान्ययौ
ततस्तु नलिनी प्रायात् प्राचीमाशां जवेन तु
पूर्वन्देशांश्च सेवन्ती भित्त्वा सा बहुधागिरीन्
सिकतापर्वतमरुं गत्वा विद्याधरान्ययौ
तासां नद्युपनद्यश्च शतशो ऽथ सहस्रशः
वक्वौकसायास्तीरे तु वनं सुरभि विश्रुतम्
यज्ञोपेतश्च सुमहानमितौजाः सुविक्रमः
कुबेरानुचरा ह्येते चत्वारस्तु समाः स्मृताः
परस्परेण द्विगुणा धर्मतः कामतोर्ऽथतः
मनस्विनीप्रभवति तस्माज्ज्योतिष्मती च या
सरो विष्णुपदं नाम निषधे पर्वतोत्तमे
मेरोः पार्श्वात्प्रभवति ह्रदश्चन्द्रप्रभो महान्
पयोदं तु सरो नीले सुशुभ्रं पुण्डरीकवत्
श्वेतात्प्रवर्त्तते पुण्यं सरयूर्मानसाद्ध्रुवम्
सरः कुरुषु विख्यातं पद्ममीनद्विजाकुलम्
अन्ये चाप्यत्र विख्याताः पद्मामीनद्विजाकुलाः
तेभ्यः शान्ता य माध्वी च द्वे नद्यौ संबभूवतुः
उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः
पूर्वायता महापर्वा निमग्ना लवणाभसि
उदग्याता उदीच्यान्ता अवगाढा महोदधिम्
प्रतीच्यामायतास्ते वै प्रविष्टा लवणोदधिम
आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति