शातकैंभमयैः शुभ्रैः शिलाजालैः समावृतः
मुञ्जवास्तु महादिव्यो दुर्गः शैलो हिमाचितः
तस्या पादात्प्रभवति शैलोदं नाम तत्सरः
सा चक्षुः सीतयोर्मध्ये प्रविष्टा लवणोदधिम्
सव्योत्तरेण कैलासाच्छिवः सत्त्वौषधिर्गिरिः
हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः
दिवं यास्यन्ति ते बुर्वे गङ्गतोयपरिप्लुताः
सोमपादात्प्रसूता सा सप्तधा प्रतिपद्यते
तत्रेष्ट्वा तु गतः सिद्धिं शक्रः सर्वैः सुरैः सह
दृश्यते भास्वरो रात्रौ देवी त्रिपथगा तु सा
भवोत्तमाङ्गे पतिता संरूद्धा यौगमायया
कृतं तु तैर्बिदुसरस्ततो बिन्दुसरः स्मृतम्
चिन्तयामास मनसा शङ्करक्षेपमं प्रति
ज्ञात्वा तम्या अभिप्रायं क्रूरं देव्याश्चिकीर्षितम्
तस्यावलेपं ज्ञात्वा तु नद्याःक्रुद्धस्तुशङ्करः
एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः
अनेन तोषितश्चाहं नद्यर्थं पूर्वमेव तु
ब्रह्मणो वचनं श्रुत्वा धारय स्वर्णदीमिति
नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः
तिस्रः प्ताचीमिमुखं प्रतीचीं तिस्र एव तु
नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगाः
सप्तमी त्वन्वगात्तासां दक्षिणेन भगीरथम्
सप्तैता भावयन्तीदं हिमाह्वं वर्षमेव तु
नानादेशान्प्लावयन्त्यो मलेच्छप्रायास्तु सर्वशः
शिलीन्ध्रान्कुन्त लांश्चीनान्बर्बरान्यवनाध्रकान्
कृत्वा त्रिधा सिंहवन्तं सीतागात्पश्चिमोद धिम्
भद्रास्तुषारांल्लाम्याकान्बाह्लवान्पारटान्खशान्
दरदांश्च सकाश्मीरान् गान्धरान् रौरसान् कुहान्
सैन्धवान्रन्ध्रकरकाञ्छमठाभीररोहकान्