कैलासाद्दक्षिणे प्राच्यां शिवसत्त्वौषधिं गिरिम्
लोहितो हेमशृङ्गश्च गिरिः सूर्यप्रभो महान्
तस्मात्पुण्यः प्रभवति लौहित्यः स नदो महान्
तस्मिन्गिरौ निवसति यक्षो मणिधरो वशी
कैलासाद्दक्षिणे पार्श्वे क्रूरसत्त्वौषधिर्गिरिः
सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः
तस्मात्प्रभवेते पुण्या सरयूर्लोकविश्रुता
कुबेरा नुचरस्तत्र प्रहेतितनयो वशी
अतरिक्षचरैर्घोरैर्यातुधानशतैर्वृतः
अरुणः पर्वतश्रेष्ठो रुक्मधातुमयः शुभः
शातकैंभमयैः शुभ्रैः शिलाजालैः समावृतः
मुञ्जवास्तु महादिव्यो दुर्गः शैलो हिमाचितः
तस्या पादात्प्रभवति शैलोदं नाम तत्सरः
सा चक्षुः सीतयोर्मध्ये प्रविष्टा लवणोदधिम्
सव्योत्तरेण कैलासाच्छिवः सत्त्वौषधिर्गिरिः
हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः
दिवं यास्यन्ति ते बुर्वे गङ्गतोयपरिप्लुताः
सोमपादात्प्रसूता सा सप्तधा प्रतिपद्यते
तत्रेष्ट्वा तु गतः सिद्धिं शक्रः सर्वैः सुरैः सह
दृश्यते भास्वरो रात्रौ देवी त्रिपथगा तु सा
भवोत्तमाङ्गे पतिता संरूद्धा यौगमायया
कृतं तु तैर्बिदुसरस्ततो बिन्दुसरः स्मृतम्
चिन्तयामास मनसा शङ्करक्षेपमं प्रति
ज्ञात्वा तम्या अभिप्रायं क्रूरं देव्याश्चिकीर्षितम्
तस्यावलेपं ज्ञात्वा तु नद्याःक्रुद्धस्तुशङ्करः
एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः
अनेन तोषितश्चाहं नद्यर्थं पूर्वमेव तु
ब्रह्मणो वचनं श्रुत्वा धारय स्वर्णदीमिति
नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः