चतुस्त्रिंशत्सहस्राणि गन्धमादनपर्वतः
चत्वारिंशत्सहस्राणि परिवृद्धो महीतलात्
पूर्वेण माल्यवाञ्छैलस्तत्प्रमाणः प्रकीर्त्तितः
तेषां मध्ये महामेरुः स्वैः प्रमाणैः प्रतिष्ठितः
विस्तरस्तत्प्रमाणः स्यादायामो नियुतं स्मृतः
आयामाः परिहीयन्ते चतुरस्रसमाः स्मृताः
प्रभिन्नाञ्जनसंकाशा जम्बूरसवती नदी
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः
तस्य नाम्ना समा ख्यातो जम्बूद्वीपो वनस्पतेः
उत्सेधो वृक्षराजस्य दिवं स्पृशति सर्वतः
फलप्रमाणं संख्यातमृषिभिस्तत्त्वदर्शिभिः
तस्या जम्ब्वाः फलरसो नदी भूत्वा प्रसर्प्पति
तं पिबन्ति सदा त्दृष्टा जंबूरसमिलावृते
न क्षुधा न श्रमश्चापि न मृत्युर्न च तन्द्रि तम्
इन्द्रगोपकसंकाशं जायते भास्वरं तु तत्
स्कन्नं भवति तच्छुभ्रं कनकं देवभूषणम्
ईश्वरानुग्रहाद्भूमिर्मृताश्च ग्रसते तु तान्
हेमकूटे तु गन्धर्वा विज्ञेयाः साप्सरोगणाः
महामेरौ त्रयस्त्रिंशत्क्रीडन्ते यज्ञियाः सुराः
दैत्यानां दानवानां चर् श्वेतः पर्वत उच्यते
नवस्वेतेषु वर्षेषु यथाभागं स्थितेषु वै
न संख्या परिसंख्यातुं श्रद्धेया तु बुभूषताम्
तस्मिन्निवसति श्रीमान्कुबेरः सह राक्षसैः
कैलासपादात्संभूतं पुण्यं शीतजलं शुभम्
तस्माद्दिव्यात्प्रभवति नदी मन्दाकिनी शुभा
प्रागुत्तरेम कैलासाद्दिव्यं सर्वौंषधि गिरिम्
चन्द्रप्रभो नाम गिरिः सुशुभ्रो रत्नसन्निभः
तस्माद्दिव्यात्प्रभवति स्वच्छोदा नाम निम्नगा
तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः
पुण्या मन्दाकिनी चैव नदी स्वच्छोदका च या