अनूपास्तुण्डिकेराश्च वीतिहोत्रा ह्यवन्तयः
अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये
अपप्राव रणाश्चैव ऊर्णा दर्वाः सहूहुकाः
चत्वारि भारते वर्षे युगानि ऋषयो ऽब्रुवन्
तेषां निसर्गं वक्ष्यामि उपरिष्टादशेषतः
आचक्ष्व नो यथातत्त्वं कीर्त्तितं भारतं त्वया
प्लक्षखण्डः किंपुरुषे सुमहान्नन्दनोपमः
सुवर्णवर्णाः पुरुषाः स्त्रियश्चाप्सरसो पमाः
जायन्ते मानवास्तत्र निस्तप्तकनकप्रभाः
तस्य किंपुरुषाः सर्वे ऽपिबन् हि रसमुत्तमम्
महारजतसंकाशा जायन्ते तत्र मानवाः
हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुफम्
हरिवर्षे तु जीवन्ति सर्वे मुदितमानसाः
मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम्
चन्द्रसूर्यै सनक्षत्रौ न प्रकाशाविला वृते
पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः
मनस्विनो भुक्तभोगाः सत्कर्मफलभोगिनः
त्रयोदशसहस्राणि वर्षाणां ते नरोत्तमाः
मेरोः प्रतिदिशं यच्च नवसाहस्रविस्तृतम्
यतुरस्रं समन्ताच्च शरावाकारसंस्थितम्
चतुस्त्रिंशत्सहस्राणि गन्धमादनपर्वतः
चत्वारिंशत्सहस्राणि परिवृद्धो महीतलात्
पूर्वेण माल्यवाञ्छैलस्तत्प्रमाणः प्रकीर्त्तितः
तेषां मध्ये महामेरुः स्वैः प्रमाणैः प्रतिष्ठितः
विस्तरस्तत्प्रमाणः स्यादायामो नियुतं स्मृतः
आयामाः परिहीयन्ते चतुरस्रसमाः स्मृताः
प्रभिन्नाञ्जनसंकाशा जम्बूरसवती नदी
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः
तस्य नाम्ना समा ख्यातो जम्बूद्वीपो वनस्पतेः
उत्सेधो वृक्षराजस्य दिवं स्पृशति सर्वतः