सर्वेषां चैव सत्त्वानां परिणामविनिर्णयः
गतिरूर्द्धमधश्चोक्ता धर्माधर्मसमाश्रया
असंख्यया च दुःखानि ब्रह्मणश्चाप्यनित्यता
दुर्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनात्
नानात्वदर्शनाच्छुद्धस्तवस्तत्र निवर्त्तते
आनन्दं ब्रह्मणः प्राप्य न बिभेति कुतश्चन
कीर्त्यते जगतश्चत्र सर्गप्रलयविक्रियाः
कीर्त्यते ऋषिवर्गस्य सर्गः पापप्रणाशनः
सौदासास्थिग्रहश्चास्य विश्वामित्रकृतेन तु
संजज्ञे पितृकन्यायां व्यासश्चापि महामुनिः
पराशरस्य प्रद्वेपो विश्वामित्र ऋषिं प्रति
देवेन विधिना विप्र विश्वामित्रहितैषिणा
एकं वेदं चतुष्पादं चतुर्द्धा पुनरीश्वरः
तस्य शिष्यप्रशिष्यैश्च शाखा वेदायुताः कृताः
पृष्ट वन्तो विशिष्टास्ते मुनयो धर्मकाङ्क्षिणः
सुनाभं दिव्यरूपाभं सप्ताङ्गं शुभशंसनम्
पृष्ठतो यात नियतास्ततः प्राप्स्यथ पाटितम्
पुण्यः स देशो मन्तव्यः प्रत्युवाच तदा प्रभुः
गङ्गा गर्भ यवाहारा नैमिषेयास्तथैव च
ईशिरे चैव सत्रेण मुनयो नैमिषे तदा
ऋषयो नैमिषेयाश्च दयया परया युताः
प्रीतिं चैव कृतातिथ्यं राजानं विधिवत्तदा
द्रुते राजनि राजानु मद्रते मुनयस्ततः
सन्निपातः पुनस्तस्य तथा यज्ञे महर्षिभिः
तदा वै नैमिषेयानां सत्रे द्वादशवार्षिके
जनयित्वा त्वरण्यं वै यदुपुत्रमथायुतम्
इति कृत्यसमुद्देशः पुराणांशोपवर्णितः
सुखमर्थः समासेन महानप्युपलक्ष्यते
पादमाद्यमिदं सम्यग् यो ऽधीते विजितेद्रियः
यो विद्याच्चतुरो वेदान् सांगोपनिषदान् द्विजाः