दक्षिणप्रवहा नद्यः सह्य पादाद्विनिःस्मृताः
नद्यो ऽभिजाता मलयात्सर्वाः शीतजलाः शुभाः
लाङ्गूलिनी वंशधरा महेन्द्रतनयाः स्मृताः
कृपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः
विश्वस्य मातरः सर्वा जगत्पापहराः स्मृताः
तास्विमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः
मत्स्याः कुशल्याः सौशल्याः कुन्तलाः काशिकोशलाः
मध्यदेश्या जनपदाः प्रायशस्त्त्र कीर्त्तिताः
पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः
रामप्रियाथ स्वर्गीया वृक्ष दिव्यास्त थौषधीः
अतः पुर्वरोद्देशस्तेन जज्ञे मनोरमः
अपरान्ताश्च मुह्माश्च पाञ्चलाश्चर्ममण्डलाः
चीनाश्चैव तुषाराश्च पल्लवा गिरिगह्वराः
अभीषाहा उलूताश्च केकया दशामालिकाः
कांवोजा दरदाश्चैव बर्बरा अङ्गलौहिकाः
लमकास्तालशालाश्च भूषिका ईजिकैः सह
तोमरा हंसभङ्गाश्च काश्मीरास्तङ्गणास्तथा
झिल्लिकाश्चाहुकाश्चैव हूणदर्वास्तथैव च
ततः प्लवङ्गवो ज्ञेया मलदा मलवर्तिकाः
प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः
अथापरे जनपदा दक्षिणापथवासिनः
सेतुका मूषिकाश्चैव क्षपणा वनवासिकाः
आभीराश्च सहैषीका आटव्या सारवास्तथा
पौरिका मौलिकाश्चैव श्मका भोगवर्द्धिनाः
दाक्षिणाश्चैव ये देशा अपरांस्तान्निबोधत
पौलेयाश्च किराताश्च रूपकास्तापकैः सह
नासिकाश्चैव ये चान्ये ये चैवान्तरनर्मदाः
कच्छिपाश्च सुराष्ट्राश्च आनर्ताश्चर्बुदैः सह
मलदाश्च करूथाश्च मेकलाश्चैत्कलैः सह
तोशलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा