इरावती वितस्ता च विपाशा देविका कुहूः
कौशकी त्रिदिवा चैव निष्ठीवी गेडकी तथा
वेदस्मृतिर्वेदवती वृत्रघ्नी सिंधु रेव च
पाशा चर्मण्वतीनूपा विदिशा वेत्रवत्यपि
शोणो महानदश्चैव नर्म्मदा सुरसा क्रिया
तमसा पिप्पला श्येना करमोदा पिशाचिका
सनेरुजा शुक्तिमती मङ्कुती त्रिदिवा क्रतुः
तापी पयोष्णी निर्विन्ध्या सृपा च निषधा नदी
तोया चैव महागौरी दुर्गा वान्नशिला तथा
गोदावरी भीमरथी कृष्णवेणाथ बञ्जुला
दक्षिणप्रवहा नद्यः सह्य पादाद्विनिःस्मृताः
नद्यो ऽभिजाता मलयात्सर्वाः शीतजलाः शुभाः
लाङ्गूलिनी वंशधरा महेन्द्रतनयाः स्मृताः
कृपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः
विश्वस्य मातरः सर्वा जगत्पापहराः स्मृताः
तास्विमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः
मत्स्याः कुशल्याः सौशल्याः कुन्तलाः काशिकोशलाः
मध्यदेश्या जनपदाः प्रायशस्त्त्र कीर्त्तिताः
पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः
रामप्रियाथ स्वर्गीया वृक्ष दिव्यास्त थौषधीः
अतः पुर्वरोद्देशस्तेन जज्ञे मनोरमः
अपरान्ताश्च मुह्माश्च पाञ्चलाश्चर्ममण्डलाः
चीनाश्चैव तुषाराश्च पल्लवा गिरिगह्वराः
अभीषाहा उलूताश्च केकया दशामालिकाः
कांवोजा दरदाश्चैव बर्बरा अङ्गलौहिकाः
लमकास्तालशालाश्च भूषिका ईजिकैः सह
तोमरा हंसभङ्गाश्च काश्मीरास्तङ्गणास्तथा
झिल्लिकाश्चाहुकाश्चैव हूणदर्वास्तथैव च
ततः प्लवङ्गवो ज्ञेया मलदा मलवर्तिकाः
प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः