झङ्कारिणी च संज्ञा च टङ्कहस्ता ततः परम्
डङ्कारी टङ्कारिणी च णामिनी तामसी तथा
फट्कारिणी च विज्ञेयाः शक्तयो द्वयपन्नगाः
रमा च लामिनी चेति षडेताः शक्तयः क्रमात्
चतस्रो ऽपि तथैव द्वे हाकिनी च क्षमा तथा
दक्षा दिवामपादान्तं राशीन्मेषादिकान्न्यसेत्
वाराणसी कामरूपं नेपालं पौण्ड्रवर्धनम्
आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोष्ठकम्
श्रीपीठं चैकवीरां च जालन्ध्रं मालवं तथा
अट्टहासं च विरजं राजवेश्म महापथम्
उज्ज्यिन्यपि चित्रा च क्षीरकं हस्तिनापुरम्
गौरीशं सलयं चैव श्रीशैलं मरुमेव च
स्याद्धिरण्यपुरं पश्चान्महालक्ष्मीपुरं तथा
लिपिक्रमसमायुक्तांल्लिपिस्थानेषु विन्यसेत्
षोढा न्यासो मयाख्यातः साक्षादीश्वरभाषितः
ततः षोढा पुरः कृत्वा श्रीचक्रन्यासमाचरेत्
चक्रेश्वरीं चक्रसमर्पणमन्त्रान्हृदि न्यसेत्
दक्षिणोरुसमं वामं सर्वांश्च क्रमशो न्यसेत्
आदाविन्द्रादयो न्यस्याः पदाङ्गुष्ठद्वयाग्रके
मूलाधारे ऽणिमादीनां सिद्धीनां दशकं ततः
दोर्देशपृष्ठयोर्मूर्धपादद्वितययोः क्रमात्
इच्छासिद्धी रससिद्धिर्मोक्षसिद्धिरिति स्मृताः
पादाङ्गुष्ठयुगे दक्षपार्श्वे मूर्द्धनि वामतः
वामजनौ दक्षजानौ दक्षवामांसयोस्तथा
अमृताकर्षिणी प्रोक्ता शरीराकर्षणी तथा
सर्वार्थसाधिनी शक्तिस्सर्वाशापूरिणी तथा
वामा विनोदिनी विद्या वशिता कामिकी मता
प्रदर्श्य मुद्रां योन्याख्यां सर्वानन्दमनुं जपेत्
इत्यात्मनस्तु चक्रस्य चक्रदेवी भविष्यति