लम्बोदरो महानादश्चतुर्मूर्तिः सदाशिवः
एकपादो द्विपादश्च शूरो वीरश्च षण्मुखः
सेनानीर्ग्रामणीर्मत्तो मत्तमूषकवाहनः
भङ्यप्रियो गणेशश्च मेघनादो गणेश्वरः
श्रीश्च ह्रीश्चैव पुष्टिश्च शान्तिस्तुष्टिः सरस्वती
तीव्रा च ज्वालिनी नन्दा सुयशाः कामरूपिणी
कामार्त्ता मदजिह्वा च विकटा घूर्णितानना
विकर्णभ्रुकुटी लज्जा दीर्घघोणा धनुर्धरी
लोलाक्षी चपला ऋज्वी दुर्भगा सुभगा शिवा
ग्रहन्यासं ततः कुर्याद्ध्यानपूर्वं समाहितः
कुङ्कुमक्षीररुधिरकुन्दकाञ्चनकंबुभिः
हृदयाधो रविं न्यस्य शीर्ष्णि सोमं दृशोः कुजम्
नाभौ शनैश्चरं वक्त्रे राहुं केतुं पदद्वये
तारा न्यसेत्ततो ध्यायन्सर्वाभरणभूषिताः
कण्ठे स्कन्धद्वये पश्चात्कूर्पयोर्मणिबन्धयोः
योगिनीन्यासमादध्या द्विशुद्धो हृदये तथा
पद्मेन्दुकर्णिकामध्ये वर्णशक्तीर्दलेष्वथ
अमृता नन्दिनीन्द्राणी त्वीशानी चात्युमा तथा
एकपादात्मिकैश्वर्यकारिणी चौषधात्मिका
कालिका खेचरी गायत्री घण्टाधारिणी तथा
झङ्कारिणी च संज्ञा च टङ्कहस्ता ततः परम्
डङ्कारी टङ्कारिणी च णामिनी तामसी तथा
फट्कारिणी च विज्ञेयाः शक्तयो द्वयपन्नगाः
रमा च लामिनी चेति षडेताः शक्तयः क्रमात्
चतस्रो ऽपि तथैव द्वे हाकिनी च क्षमा तथा
दक्षा दिवामपादान्तं राशीन्मेषादिकान्न्यसेत्
वाराणसी कामरूपं नेपालं पौण्ड्रवर्धनम्
आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोष्ठकम्
श्रीपीठं चैकवीरां च जालन्ध्रं मालवं तथा
अट्टहासं च विरजं राजवेश्म महापथम्