रमाकान्तो रमोपास्यो रममाणो निशाचरः सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी
नन्दी सुरोत्तमाढ्यो नन्दनो नन्दयिता पुनः विज्ञेया दशमी चैव सर्वेप्सितफलप्रदा
कलहप्रियया युक्तस्तथा रतिसखः पुनः प्राग्वामाद्याश्च विन्यस्य पक्षिण्याद्यास्ततः सुधीः
नीली जडिल्यो भ्रमणः क्रमशः पालिनीपतिः
भ्रामको रमया प्राप्तो भ्रामितो भृङ्ग इष्यते कौलिनीति समुक्तानि तासां नामानि सूरिभिः
भ्रमावहं समन्वेति मोहनस्तु रतिप्रियाम् हृदि त्रिकोणं संभाव्य दिक्षु प्रागादितः क्रमात्
विकटेशो मोहधरो वर्धनोयं धरायुतः न्यसेदग्न्यादिकोणेषु मध्ये पीठचतुष्टयम्
मादकोह्लादिनीयुक्तः समिच्छन्विश्वतोमुखी कामेश्वरी तथा नित्या नित्या च भगमालिनी
गणको ऽनामया ज्ञेयः काल्या नर्तक इष्यते वह्निवासिनिका नित्या महावज्रेश्वरी तथा
नर्तकः श्यामलाकान्तो विलासी झषयान्वितः कुलसुन्दरिका नित्या कुल्या नित्या ततः परम्
ध्यानपूर्वं ततः श्रीकण्ठादिविन्यासमाचरेत् ततस्तु मङ्गला चैव नित्यपूर्वा प्रचक्ष्यते
पाशद्वयाक्षवलयेष्टदहस्तमेव स्मृत्वा न्यसेल्लिपिपदेषु समीहितार्थम् एतास्त्रिकोणान्तरेण पादतो हृदि विन्यसेत्
उर्वीशोभारभूतिश्चातिथीशः स्थाणुको हरः तन्मध्ये विन्यसेद्देवीमखण्डजगदात्मिकाम्
अक्रूरश्च महासेनः स्युरेते वरमूर्त्तयः
तथैकरुद्रकूर्मैकनेत्राः सचतुरातनाः
अर्धनारीश्वरश्चोमाकान्तश्चापाढ्यदण्डिनौ
खड्गदण्डद्विदण्डौ च सुमहाकालव्या लिनौ
श्वेतो ह्यभ्रश्च लकुलीशिवः संवर्त्तकस्तथा
लोलाक्षी वर्तुलाक्षी च दीर्घङ्घोणा तथैव च
कुञ्जरी चौर्ध्वकेशा च द्विमुखी विकृतानना
महाकाली सरस्वत्यौ सर्वसिद्धिसमन्विते
लंबोदरी भूतमता द्राविणी नागरी तथा
कोटरा पूतना भद्रा काली योगिन्य एव च
कपर्दिनी तथा वज्रा जया च सुमुखेश्वरी
रक्षावधारिणी चान्या तथा च सहजाह्वया
द्विरुक्तवालाया वर्णै रङ्गं कृत्वाथ केवलैः
विघ्नेशादींस्तु तत्रादौ विन्यसेद्ध्यानपूर्वकम्
पाशाङ्कुशवराभीतिहस्ताञ्छक्तिसमन्वितान्
विघ्नकृद्विघ्नहन्ता च विघ्नराढ्गणनायकः
कपर्दवान्दीर्घमुखः शङ्कुकर्णो वृषध्वजः