अकौ खगेनगश्चादौ क्रमोयं शिष्टवर्गके उपर्यधश्च जङ्घायां तथा वामे विलोमतः
आद्यः पञ्चाक्षरो वर्गो द्वितीयश्चतुरक्षरः सर्वाद्याकर्षणी शक्तिः सर्वप्रह्लादिनी तथा
ब्रह्मा विष्णुश्च रुद्रश्च धनेशेन्द्रयमाः क्रमात् सर्वाद्या जृंभिणी शक्तिः सर्वाद्या वशकारिणी
वर्णानामीश्वराः प्रोक्ताः क्रमो भूतलिपेरयम्
स्थानानि योजनीयौ विसर्गबिन्दू च वर्णान्तौ चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि
जपाकुसुमसंकाशाः कुङ्कुमारुणविग्रहाः दक्षनासापुटे दन्तमूले दक्षस्तने तथा
रतिप्रीतियुतः कामः कामिन्याः कान्तैष्यते सर्वसिद्धिप्रदा नित्यं सर्वसंपत्प्रदा तथा
अन्वेति कामचारैस्तु विलासिन्या समन्वितः सर्वाघमोचिनी शक्तिः सर्वदुःखविमोचिनी
शुचिस्मितान्वितः कामो बन्धको विस्मृतायुतः सर्वाङ्गसुन्दरी चैव सर्वसौभाग्यदायिनी
रमण्या रतिनाथोपि दिग्वस्त्राढ्यो रतिप्रियः सर्वज्ञाद्यान्न्यसेद्वक्षस्यपि दन्तस्थलेष्वथ
रमाकान्तो रमोपास्यो रममाणो निशाचरः सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी
नन्दी सुरोत्तमाढ्यो नन्दनो नन्दयिता पुनः विज्ञेया दशमी चैव सर्वेप्सितफलप्रदा
कलहप्रियया युक्तस्तथा रतिसखः पुनः प्राग्वामाद्याश्च विन्यस्य पक्षिण्याद्यास्ततः सुधीः
नीली जडिल्यो भ्रमणः क्रमशः पालिनीपतिः
भ्रामको रमया प्राप्तो भ्रामितो भृङ्ग इष्यते कौलिनीति समुक्तानि तासां नामानि सूरिभिः
भ्रमावहं समन्वेति मोहनस्तु रतिप्रियाम् हृदि त्रिकोणं संभाव्य दिक्षु प्रागादितः क्रमात्
विकटेशो मोहधरो वर्धनोयं धरायुतः न्यसेदग्न्यादिकोणेषु मध्ये पीठचतुष्टयम्
मादकोह्लादिनीयुक्तः समिच्छन्विश्वतोमुखी कामेश्वरी तथा नित्या नित्या च भगमालिनी
गणको ऽनामया ज्ञेयः काल्या नर्तक इष्यते वह्निवासिनिका नित्या महावज्रेश्वरी तथा
नर्तकः श्यामलाकान्तो विलासी झषयान्वितः कुलसुन्दरिका नित्या कुल्या नित्या ततः परम्
ध्यानपूर्वं ततः श्रीकण्ठादिविन्यासमाचरेत् ततस्तु मङ्गला चैव नित्यपूर्वा प्रचक्ष्यते
पाशद्वयाक्षवलयेष्टदहस्तमेव स्मृत्वा न्यसेल्लिपिपदेषु समीहितार्थम् एतास्त्रिकोणान्तरेण पादतो हृदि विन्यसेत्
उर्वीशोभारभूतिश्चातिथीशः स्थाणुको हरः तन्मध्ये विन्यसेद्देवीमखण्डजगदात्मिकाम्
अक्रूरश्च महासेनः स्युरेते वरमूर्त्तयः
तथैकरुद्रकूर्मैकनेत्राः सचतुरातनाः
अर्धनारीश्वरश्चोमाकान्तश्चापाढ्यदण्डिनौ
खड्गदण्डद्विदण्डौ च सुमहाकालव्या लिनौ
श्वेतो ह्यभ्रश्च लकुलीशिवः संवर्त्तकस्तथा
लोलाक्षी वर्तुलाक्षी च दीर्घङ्घोणा तथैव च
कुञ्जरी चौर्ध्वकेशा च द्विमुखी विकृतानना