यथा गतिर्न दृश्येत महावृत्तं महात्मनाम्
उभयोः काम्यकर्मा स्यादिति शास्त्रस्य निश्चयः
कोटिकोटिमहायज्ञात्परा श्रीपादुका स्मृतिः
तावद्वर्णाश्रमाचारः कर्तव्यः कर्ममुक्तये
निषिद्धमपि तत्कुर्याद्गुर्वाज्ञां नैव लङ्घयेत्
दण्डप्रमाणं कृत्वैकं त्रिः प्रदक्षिणामाचरेत्
प्रणमेद्देवबुद्ध्या तु प्रतिमां लोहमृन्मयीम्
विकास्य गुह्यशास्त्राणि भवन्ति ब्रह्मराक्षसाः
न निन्देदन्यसमयान्वेदशास्त्रागमादिकान्
क्रोश मात्रस्थितो भक्त्या गुरुं प्रतिदिनं नमेत्
एकयोजनमारभ्य योजनद्वादशावधि
अतिदूरस्थितः शिष्यो यदेच्छा स्यात्तदा व्रजेत्
फलपुष्पांबरादीनि यथाशक्ति समर्पयेत्
सच्छिष्यानुग्रहार्थाय गूढं पर्यटति क्षितौ
शिवः कृपानिधिर्लोके संसारीव हि चेष्टते
अचतुर्वदनो ब्रह्मा श्रीगुरुः परिकीर्तितः
भाग्यहीना न पश्यन्ति सूर्यमन्धा इवोदितम्
अधमा शास्त्रचिन्ता स्याल्लोकचिन्ताधमाधमा
नास्ति भक्त्यधिका पूजा न हि मोक्षाधिकं फलम्
तत्र तत्रोच्यते शब्दैः श्रीकामाक्षी परात्परा
लक्ष्मीनारायणौ वाणीधातारौ गिरिजाशिवौ
आधाराधेयनामानौ भोगमोक्षौ तथैव च
सुखदुःखादि यद्द्वन्द्वं दृश्यते श्रूयते ऽपि वा
उत्तीर्ममपरं ज्योतिः कामाक्षीनामकं विदुः
इत्थं हि शक्तिमार्गे ऽस्मिन्यः पुमानिह वर्तते
अमन्त्रं वा समत्रं वा कामाक्षीमर्चयन्ति ये
किं पुनः क्षत्त्रिया विप्रा मन्त्रपूर्वं यजन्ति ये
सितामध्वाज्यकदलीफलपायसरूपकम्
योनार्चयति शक्तो ऽपि स देवीशापमाप्नुयात्
गृहस्थस्तु महादेवीं मङ्गलाचारसंयुतः