गुरुणा कमलासनमुरशासनपुरशासनसेवया लब्धे
वामपार्श्वे गुरोस्तिष्ठेदमानी विनयान्वितः
विमुच्य नेत्रबन्धं तु दर्शयेदर्चनक्रमम्
महात्रिपुरसुन्दर्या नैवेद्यमिति चादिशेत्
ततो बहिर्विनिर्गत्य स्थाप्य दार्वासने शुचिम्
शिष्यं श्रीकुम्भसलिलैरभिषिञ्चेत्समन्त्रकम्
अष्टोत्तरशतं मन्त्रं जप्त्वा निद्रामथाविशेत्
दुःस्वप्ने तु जपं कुर्यादष्टोत्तरसहस्रकम्
यदा न दृष्टः स्वप्नो ऽपि तदा सिद्धिश्चिराद्भवेत्
सद्य एव स शिष्यः स्यात्पङ्क्तिपावनपावनः
तदधीनश्च रेन्नित्यं तद्वाक्यं नैव लघयेत्
दुर्लभं तं विजानीयाद्गुरुं संसारतारकम्
अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते
गुरुक्तं परुषं वाक्यमाशिषं परिचिन्तयेत्
आददीत ततो ज्ञानं पूर्वं तमभिवादयेत्
गुरुभक्तिस्सदाचारस्तद्द्रोहस्तत्र पातकम्
यत्पापं समवाप्नोति गुर्वग्रे ऽनृतभाषणत्
ब्रह्मादिस्तंब पर्यतं यस्य मे गुरुसंततिः
इति सर्वानुकूलो यः स शिष्यः परिकीर्तितः
गुरुशासनवर्तित्वाच्छिष्य इत्यभिधीयते
जपध्यानादियुक्तस्य क्षिप्रं मन्त्रः प्रसिध्यति
तथा समाधिसा मर्थ्याद्ब्रह्मीभूतो भवेन्नरः
तथैव मीलयेन्नेत्रे एतद्ध्यानस्य लक्षणम्
किङ्करत्वं च गच्छन्ति मन्त्रा मन्त्राधिपैः सह
योगस्तपः स तन्मन्त्रस्तद्धनं यन्निरीक्षणम्
यत्रयत्र मनो याति तत्रतत्र समाधयः
न तस्य किञ्चिदाप्तव्यं ज्ञातव्यं वावशिष्यते
जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः
त्यजेदज्ञाननिर्माल्यं सोहंभावेन योजयेत्
पाशबद्धः स्मृतो जीवः पाशमुक्तो महेश्वरः