एतद्विज्ञानमात्रेण योगिनीनां प्रियो भवेत्
तर्जन्यङ्गुष्ठयुगलं युगपद्योजयेत्ततः
बीजमुद्रेयमाचिरात्सर्वसिद्धप्रवर्तिनी
अनामिकामध्यगते तथैव हि कनिष्टिके
एषा तु प्रथमा मुद्रा योनिमुद्रेति संज्ञिता
पूजाकाले प्रयोक्तव्या यथानुक्रमयोगतः
श्रीदेवीदर्शने दीक्षा यादृशी तां निवेदय
क्षाल्यन्ते च तथा पुसां दीक्षामाचक्ष्महे ऽत्र ताम्
गुरुः स्पृशेच्छिष्यतनुं स्पर्शदीक्षेयमीरिता
सम्यक्पश्येद्गुरुः शिष्यं दृग्दीक्षा सेयमुच्यते
सद्यः सञ्जायते ज्ञानं सा दीक्षा शाम्भवी मता
तत्प्रसादेन शिष्यो ऽपि तद्रूपः सम्प्रकाशते
तूष्णीं संकल्पयेच्छिष्यं सा दीक्षा मानसी मता
आदौ कुर्यात्क्रियादीक्षां तत्प्रकारः प्रवक्ष्यते
जिह्वास्यमलशुद्धिं च कृत्वा स्नात्वा यथाविधि
एकान्ते निवसञ्छ्रीमान्मौनी च नियताशनः
देवीसूक्तेन संयुक्तं विद्यान्यासं समातृकम्
आवाहना सने पाद्यमर्ध्यमाचमनं तथा
धूपदीपौ च नैवेद्यं ताम्बूलं च प्रदक्षिणा
अथ पुष्पाञ्जलिं दद्यात्सहस्राक्षरविद्यया
नोचेत्तत्पूजनं व्यर्थमित्याहुर्वेदवादिनः
तावद्भिस्तण्डुलैः शुद्धैः शस्तार्णैस्तत्र नूतनम्
न्यग्रोधाश्वत्थमाकन्दजंबूदुम्बरशाखिनाम्
कुम्भाग्रे निक्षिपेत्पक्वं नारिकेलफलं शुभम्
श्रीचिन्तामणिमन्त्रं तु हृदि मातृकमाजपेत्
अष्टोत्तरशते जाते पुनर्दीपं प्रदर्शयेत्
कारयित्वा प्रणामानां साष्टाङ्गानां त्रयं गुरुः
श्रीनाथकरुणाराशे परञ्ज्योतिर्मयेश्वरि
परं धाम परं ब्रह्म मम त्वं परदेवता
इत्युक्त्वा गुरुपादाव्जे शिष्यो मूर्ध्नि विधारयेत्