कुर्याच्च विधिवत्पूजां पुनर्योग्यो भवेन्नरः
निष्कामो देवतां नित्यं योर्ऽचयेद्भक्तिनिर्भरः
तामेव चिन्तयन्नास्ते यथाशक्ति मनुं जपन्
सदा संनिहिता तस्य सर्वं च कथयेत सा
तथानुगच्छेत्सा देवी स्वभक्तं शरणागतम्
वत्सं गौरिव यं गौरी धावन्तमनुधावति
श्रीदेवतायां निक्षिप्य सदा तद्गतमानसः
अनन्यशरणो गौरीं दृढं सम्प्रार्थ्य रक्षणे
वरिवस्यातत्परः स्यात्सा एव शरणागतिः
इति स्वरूपं सुधिया समीक्ष्य विषादखेदौ न भजेत्प्रपन्नः
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा
न ह्यस्य सदृशं किञ्चिद्भुक्तिमुक्त्योस्तु साधनम्
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः
असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु
मयि चानन्यभावेन भक्तिख्यभिचारिणी
एतानि सर्वदा ज्ञानसाधनानि समभ्यसेत्
निर्वैरः सर्वभूतेषु यः स याति परां श्रियम्
शिष्यो ऽपि त्वादृशः प्रोक्तो रहस्याम्नायदेशिकः
याभिर्विरचिताभिस्तु श्रीदेवी संप्रसीदति
परिवृत्य करौ स्पष्टमङ्गुष्ठौ कारयेत्समौ
संक्षोभिण्याख्यामुद्रां तु कथयाम्यधुना श्रुणु
तर्जन्यो दण्डवत्कृत्वा मध्यमोपर्यनामिके
क्रियते विन्ध्यदर्पारे मुद्रा विद्राविणी तथा
इयमाकर्षिणी मुद्रा त्रैलोक्याकर्षणे क्षमा
परिवर्तक्रमेणैव मध्यमे तदधोगते
अनामिके तु सरले तद्बहिस्तर्जनीद्वयम्
मुद्रैषोन्मादिनी नाम्ना ख्याता वातापितापन
तर्जन्यावपि तेनैव क्रमेण विनियोजयेत्
इयं महाङ्कुशा मुद्रा सर्वकार्यार्थसाधिका
तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे