दूरीकृतसुचारित्रां विशालनयनाम्बुजाम्
विमूढामिव विक्षुब्धामिव प्लुष्टामिवाद्भुताम्
निलीनामिव निश्चेष्टामिवान्यत्वं गतामिव
भ्रमन्तीं भावयेन्नारीं योजनानां शतादपि
चतुःसमुद्रपर्यन्तं ज्वलन्तीं चिन्तयेत्ततः
दृष्ट्वा कर्षयते लोकं दृष्ट्वैव कुरुते वशम्
दृष्ट्वा चातुर्थिकादींश्च ज्वरान्नाशयते क्षणात्
वाक्स्तंभं वादिनां क्षिप्रं कुरुते नात्र संशयः
दक्षिणाभिमुखो वह्नौ दग्ध्वा मारयते रिपून्
आरनालस्थितं चक्रं विद्वेषं कुरुते द्विषाम्
लंबमानस्तदाकारो उच्चाटनकरं परम्
लिखित्वा धारयंश्चक्रं चातुर्वर्ण्यं वशं नयेत्
सौभाग्यमतुलं तस्य स्नानपानान्न संशयः
ज्वलन्तीं चिन्तयेन्नित्यं सप्ताहात्क्षोभयेन्मुने
पूर्वाशाभिमुखो भूत्वा स्तंभयेत्सर्ववादिनः
यदा तदा स्ववशगो लोको भवति नान्यथा
यः ससर्वाङ्गनाकर्षवश्यक्षोभकरो भवेत्
अजरामरतां मन्त्री लभते नात्र संशयः
गोपनात्सर्वसिद्धिः स्याद्भ्रंश एव प्रकाशनात्
देवताशापमाप्नोति न च सिद्धिं स विन्दति
कुर्याच्च विधिवत्पूजां पुनर्योग्यो भवेन्नरः
निष्कामो देवतां नित्यं योर्ऽचयेद्भक्तिनिर्भरः
तामेव चिन्तयन्नास्ते यथाशक्ति मनुं जपन्
सदा संनिहिता तस्य सर्वं च कथयेत सा
तथानुगच्छेत्सा देवी स्वभक्तं शरणागतम्
वत्सं गौरिव यं गौरी धावन्तमनुधावति
श्रीदेवतायां निक्षिप्य सदा तद्गतमानसः
अनन्यशरणो गौरीं दृढं सम्प्रार्थ्य रक्षणे
वरिवस्यातत्परः स्यात्सा एव शरणागतिः
इति स्वरूपं सुधिया समीक्ष्य विषादखेदौ न भजेत्प्रपन्नः