सर्वर्तुसुखसंपन्ना न्निष्पङ्का नीरजा शुभा
शुक्लाभिजनसंपन्नाः सर्वे च स्थिरयौवनाः
तेषां ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतो पमम्
समं शीलं च रूपं च प्रियता चैव तत्समा
अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः
जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः
दृष्टः परमतत्त्वज्ञैर्भूयः किं वर्णयामि वः
चतुर्दशैते मनवः प्रजासर्गे ऽभवन्पुनः
एतच्छ्रुतवचस्तेषामब्रवीद्रोमहर्षणः
इदं तु मध्यमं चित्रं शुभाशुभफलोदयम्
वर्षं तद्भारतं नाम यत्रेयं भारती प्रजा
निरुक्तवचनाच्चैवं वर्षं तद्भारतं स्मृतम्
न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते
समुद्रातरिता ज्ञेयास्ते त्वगम्याः परस्परम्
नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः
योजनानां सहस्रे तु द्वीपो ऽयं दक्षिणोत्तरात्
तिर्यगुत्तरविस्तीर्मः सहस्राणि नवैव तु
पूर्वे किराता ह्यस्यान्ते पश्चिमे यवनाः स्मृताः
इज्यायुधवणिज्याभिर्वर्त्तयन्तो व्यवस्थिताः
धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु
इह स्वर्गापवर्गार्थं प्रवृत्तिर्येषु मानुषी
कृत्स्नं जयति यो ह्येनं सम्राडित्यभिधीयते
स्वराडसौ स्मृतो लौकः पुनर्वक्ष्यामि विस्तरात्
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः
तेषां सहस्रश्चान्ये पर्व तास्तु समीपगाः
संदरः पर्वतश्रेष्ठो वैहारो दुर्दुरस्तथा
वातन्धमो नागगिरिस्तथा पाण्डुरपर्वतः
पुष्पगिर्युज्जयन्तौ च शैलो रैवतकस्तथा
अन्ये तेभ्यो ऽपरिज्ञाता ह्रस्वाः स्वलपोपजी विनः
पीयन्ते यैरिमा नद्यो गङ्गा सिंधु सरस्वती