मनसोपांशुना वापि निगदेनापि तापस
एकलक्षजपेनैव महापापैः प्रमुच्यते
पापानि नाशयत्येव साधकस्य परा कला
क्रमात्षोडशलक्षेण देवीसांनिध्यमाप्नुयात्
होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते
मन्त्रान्ते पूजयेद्देवीं जपकाले यथोचितम्
तद्दशांशं ब्राह्मणानां भोजनं विन्ध्यमर्दन
तत्संख्याद्विगुणं जप्त्वा पुरश्चर्यां समापयेत्
पश्चाद्वश्यादिकर्माणि कुर्वन्सिद्धिमवाप्स्यति
सर्वमात्मानमरुणं साध्यमप्यरुणीकृतम्
वल्लभः सर्वलोकानां वशयेन्नात्रसंशयः
शतमष्टोत्तरं जप्त्वा तिलकं कारयेद् बुधः
अर्धेन च शरीरेण स वशं याति दासवत्
सद्य आकृष्यते सा तु विमूढहृदया सती
सुरूपां च सशृङ्गारवेषाभरणमण्डिताम्
जन्मनाममहाविद्यामङ्कुशान्तर्विदर्भितम्
तदाशाभिमुखो भूत्वा त्रिपुरीकृतविग्रहः
संयोज्य दहनागारे चन्द्रसूर्यप्रभाकुले
प्रज्वलन्मदनोन्मेषप्रस्फुरज्जघनस्थलाम्
दूरीकृतसुचारित्रां विशालनयनाम्बुजाम्
दूरीकृतसुचारित्रां विशालनयनाम्बुजाम्
विमूढामिव विक्षुब्धामिव प्लुष्टामिवाद्भुताम्
निलीनामिव निश्चेष्टामिवान्यत्वं गतामिव
भ्रमन्तीं भावयेन्नारीं योजनानां शतादपि
चतुःसमुद्रपर्यन्तं ज्वलन्तीं चिन्तयेत्ततः
दृष्ट्वा कर्षयते लोकं दृष्ट्वैव कुरुते वशम्
दृष्ट्वा चातुर्थिकादींश्च ज्वरान्नाशयते क्षणात्
वाक्स्तंभं वादिनां क्षिप्रं कुरुते नात्र संशयः
दक्षिणाभिमुखो वह्नौ दग्ध्वा मारयते रिपून्
आरनालस्थितं चक्रं विद्वेषं कुरुते द्विषाम्