मुनीनां मोहनश्चासीत्स्मरो यद्वरिवस्यया
निधाय गन्धैरभ्यर्च्य षोडशाक्षरविद्यया
सहस्रैर्मूलमन्त्रेण श्रीदेवीध्यानसंयुतः
अनवद्यैश्च नैवेद्यैर्माषापूपैर्मनोहरैः
महसा तस्य सांनिध्यमाधत्ते परमेश्वरी
धवलै कुसुमैश्चक्रमुक्तरीत्या तु योर्ऽचयेत्
सार्वभौमं च राजानं दासवद्वशयेदसौ
तस्य वक्षस्थले नित्यं साक्षाच्छ्रीर्वसति ध्रुवम्
सुगन्धैरेव कुसुमैः पुष्पैश्चाभ्यर्चर्योच्छवाम्
श्रीविद्यैषा परा विद्या नायिका गुरुनायिका
कामराजान्तमन्त्रान्ते श्रीबीजेन समन्वितः
इत्थं रहस्यमाख्यातं गोपनीयं प्रयत्नतः
सर्वेषा मपि मन्त्राणां विद्यैषा प्राणरूपिणी
संस्मृता पापहरणी जरामृत्युविनाशिनी
स्तुता विघ्नौघशमिनी ध्याता सर्वार्थसिद्धिदा
भजेद्यः परमेशानीमभीष्टफलमाप्नुयात्
पूजयेद्धवलैः पुष्पैर्ब्रह्मचर्ययुतो नरः
संकल्पधवलैर्वापि पूजयेत्परमेश्वरीम्
षोडशाक्षरविद्यां तामर्चयेच्छुद्धमानसः
अनुलोमविलोमेन प्रजपन्मात्रिकाक्षरैः
मनसोपांशुना वापि निगदेनापि तापस
एकलक्षजपेनैव महापापैः प्रमुच्यते
पापानि नाशयत्येव साधकस्य परा कला
क्रमात्षोडशलक्षेण देवीसांनिध्यमाप्नुयात्
होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते
मन्त्रान्ते पूजयेद्देवीं जपकाले यथोचितम्
तद्दशांशं ब्राह्मणानां भोजनं विन्ध्यमर्दन
तत्संख्याद्विगुणं जप्त्वा पुरश्चर्यां समापयेत्
पश्चाद्वश्यादिकर्माणि कुर्वन्सिद्धिमवाप्स्यति
सर्वमात्मानमरुणं साध्यमप्यरुणीकृतम्