रत्नानुबद्धतपनीयमहाकिरीटे सर्वाङ्गसुन्दरि समस्तसुरेन्द्रवन्द्ये
इन्द्रादिदेवपरिसेवितपादपद्मे सिंहासनेश्वरी परे मयि संनिदध्याः
तस्यास्तु दक्षिणे भागे महागौरीं ददर्श ह
दत्त्वा चास्यै महार्हाणि वासांसि विविधानि च
ततः प्रदक्षिणीकृत्य निर्गत्य सह भार्यया
तामेव चिन्तयंस्तत्र सप्तरात्रमुवास सः
अम्बाभीष्टं प्रदेहीति प्रार्थयामास चेतसा
भविष्यन्ति मदंशास्ते चत्वारस्तनया नृप
श्रियं प्रणम्य साष्टाङ्गमननन्यशरणः पराम्
अयोध्यां नगरीं प्रापदिन्दुमत्यास्तु नन्दनः
सर्वेषामपि भक्तानां काङ्क्षितं पूरयत्यलम्
उपास्य विधिवद्भक्त्या प्राप्ताः कामानशेषतः
अनेके च भविष्यन्ति कामाक्ष्याः करुणादृशः
नाहं न शम्भुर्न ब्रह्मा न विष्णुः किमुतापरे
शृण्वतां पठतां चापि सर्वपापहरं स्मृतम्
उपदेष्टा च कीदृक्स्याच्छिष्यो वा कीदृशः स्मृतः
स्वामिन्मयि कृपादृष्ट्या सर्वमेतन्निवेदय
सैषैव हि महालक्ष्मीः स्फुरच्चैवात्मनः पुरा
अस्य चक्रस्य माहात्म्यमपरिज्ञेयमेव हि
कामसंमोहिनीरूपं भेजे राजीवलोचनः
मुनीनां मोहनश्चासीत्स्मरो यद्वरिवस्यया
निधाय गन्धैरभ्यर्च्य षोडशाक्षरविद्यया
सहस्रैर्मूलमन्त्रेण श्रीदेवीध्यानसंयुतः
अनवद्यैश्च नैवेद्यैर्माषापूपैर्मनोहरैः
महसा तस्य सांनिध्यमाधत्ते परमेश्वरी
धवलै कुसुमैश्चक्रमुक्तरीत्या तु योर्ऽचयेत्
सार्वभौमं च राजानं दासवद्वशयेदसौ
तस्य वक्षस्थले नित्यं साक्षाच्छ्रीर्वसति ध्रुवम्
सुगन्धैरेव कुसुमैः पुष्पैश्चाभ्यर्चर्योच्छवाम्
श्रीविद्यैषा परा विद्या नायिका गुरुनायिका