अयोध्यादेवताधामामशिषत्तत्र सङ्गतः
किञ्चिन्निद्रालसस्यास्य पुरतस्त्रिपुरांबिका
स्थित्वा वाचमुवाचेमां मन्दमिन्दुमतीसुतम्
विश्वासघातकर्माणि संति पूर्वकृतानि ते
स्नात्वा कम्पासरस्यां च तत्र मां पश्य पावनीम्
कामकोष्ठं विपाप्मापि सप्तद्वारबिलान्वितम्
प्राङ्मुखी तत्र वर्ते ऽहं महासिंहासनेश्वरी
चक्रेश्वरी महाराज्ञी ह्यदृश्या स्थूलचक्षुषाम्
सौन्दर्यसारसीमा सा सर्वाभरणभूषिता
महालक्ष्मीस्वरूपेण किं वा कृत्यात्मना स्थिता
पातकान्याशु नश्यन्ति किं पुनस्तूपपातकम्
कुदेहश्च कुभावश्च नास्तिकत्वं लयं व्रजेत्
विविधैर्भक्ष्यभोज्यैश्च पदार्थैः षड्रसान्वितैः
उपदिश्येति सम्राज्ञी दिव्यमूर्तिस्तिरोदधे
देवीमुद्बोध्य कौसल्यां शुभलक्षणलक्षिताम्
तत्समा कर्ण्य सा देवी सन्तोषमभजत्तदा
अनीकसचिवोपेतः काञ्चीपुरमुपागमत्
पञ्चतीर्थे ततः स्नात्वा देव्या कौसल्यया नृपः
प्रीणयित्वा सपत्नीकस्तथा तद्भक्तिपूजकान्
प्रदक्षिणत्रयं कृत्वा विनयेन समन्वितः
श्रीकामकोष्ठनिलयं महात्रिपुरसुन्दरीम्
प्रणिपत्य तु साष्टाङ्गं भार्यया सह भक्तिमान्
दुर्वासा सशिष्येण पूजार्थं पूर्वकल्पिते
तत्र स्वगुरुणोक्तं च कृत्वा स्वात्मार्घपूजनम्
तदेवात्रापि संदध्यौ सन्निधौ राजसत्तमः
दिव्यान्यायतनान्यस्यै दत्त्वा स्तोत्रं चकार ह
पीतांबरस्फुरितपेशलहेमकाञ्चि केयूरकङ्कणपरिष्कृतबाहुवल्लि
वक्षोजमण्डलविलासिवलक्षहारि पाशाङ्कुशाङ्गदलसद्भुजशोभिताङ्गि
वामे करे सरसिजं सुबिसं दधाने कारुण्यनिर्झरदपाङ्गयुते महेशि
मन्दस्मितस्फुरणशालिनि मञ्जुनासे नेत्रश्रिया विजितनीलसरोजपत्रे