मद्रूपस्त्वं कथं देहः सेयं लोकविडम्बना
इत्युक्त्वान्तर्दधे तत्र महासिंहासनेश्वरी
विनीय तं निशाशेषं श्रीध्यानैकपरायणः
पुनः पुनर्धूनुते स्म करलग्नं कपालकम्
स्वप्नः किमेष माया वा मानसभ्रान्तिरेव वा
स्वयमेव निगृह्याथ शोकं धीराग्रणीः शिवः
निगृहीतेन्द्रियग्रामः समाधिस्थो ऽभवत्पुनः
अलं समाधिना शम्भो निमज्जात्र सरोवरे
इयं च माया स्वप्नो वा किं कर्त्तव्यं मयाथ वा
इत्युक्तं श्रीपरादेव्या यामातीतमिदं दिनम्
भगवान्व्यो मवाण्या तु निमज्जाप्स्विति गर्जितम्
निममज्ज सरस्यां तु गङ्गायां पुनरुत्थितः
स मुहुर्तं स्थितस्तूष्णीं नखलीनकपालकः
भिक्षार्थं नगरीमेनां प्रविवेश वशी शिवः
सो ऽपश्यदग्रतः काञ्चित्काञ्चीं श्रीदेवताकृतिम्
क्षणाद्ब्रह्मकपालं तत्प्रच्युतं तन्नखाग्रतः
प्रसन्नवदनांभोजो बहु मेने मुहुः परम्
देवता सैव कामाक्षीत्यासीत्संभावना पुरः
स्वस्थः स्वस्थानमगमच्छ्लाघमानः परां श्रियम्
प्रभावं श्रीमहादेव्याः कामदं शृण्वतां सदा
सन्तानरहितो ऽतिष्ठद्बहुकालं शुचाकुलः
उवाचाचारसंशुद्धः सर्वशास्त्रार्थवेदिनम्
किं कुर्वे यदि संतानसंपत्स्यात्तन्निवेदय
एता पुण्यतमाः प्रोक्ताः पुरीणामुत्तमोत्तमाः
अर्चयन्ति ह्ययोध्यायां मनुष्या अधिदेवताम्
एनामेवर्चयन्त्यन्ये सर्वे श्रीदेवतां नृप
नारिकेलफलालीभिः पनसैः कदलीफलैः
अभीष्टमचिरेणैव संप्रदास्यति सैव नः
स्वाङ्गजप्राप्तये भूयो विससर्ज विशांपतिः
अर्चयामास राजेन्द्रो भक्त्या परमया युतः