अचष्ट कृपया तुष्टा ध्यायन्तं निश्चलं शिवम्
अङ्गीकुरुष्व कन्दर्पं भूयो मच्छासने स्थितम्
गौरीमनुगृहाण त्वं कंपानीरनिवासिनीम्
इत्युक्त्वान्तर्दधे तस्य हृदये परमा रमा
तस्या अनुग्रहं लब्ध्वा सर्वदेवनिषेवितः
यद्विलासात्समुत्पन्नं लयं याति च यत्र वै
भूषयन्तीं शिवां कम्पामनुकंपार्द्रमानसाम्
आदाय वृषमारुह्य कैलासशिखरं ययौ
आदिलक्ष्म्याः प्रभावं तु कथयामि तवानघ
दिक्पालाश्च सुराः सर्वे सनकाद्याश्च योगिनः
द्वयोः पञ्चमुखत्वेन भेदं न विविदुस्तदा
तेषां संवदतां मध्ये क्षिप्रमन्तर्हितः शिवः
उभयोरपि संवादस्त्वहं ब्रह्मेत्यजायत
त्वं च रुद्रश्च मे पुत्रौ सृष्टिकर्तुरुभौ युवाम्
प्रादुरासीन्महाज्योतिस्तंभरूपो महेश्वरः
ब्रह्मणः शिरसामूर्ध्वं ज्योतिश्चक्रमभूत्पुरः
ऊर्ध्वमैक्षथ भूयस्तमवमत्य वचो ऽब्रवीत्
विष्णुमेवं तदालोक्य क्रोधेनैव विकारतः
हाहेति तत्र सर्वे ऽपि क्रन्दन्तश्च पलायिताः
भूयोभूयो धुनोति स्म तथापि न मुमोच तम्
पुण्यक्षेत्राणि सर्वाणि गङ्गाद्याश्च महानदीः
चिरेण प्राप्तवान्काञ्चीं ब्रह्मणा पूर्वमोषिताम्
पञ्चतीर्थे प्रतिदिनं स्नात्वा भूलक्षणाङ्किते
काञ्चीक्षेत्रनिवासेन क्रमेण प्रयताशयः
उत्तरे सेवितुं लक्ष्म्या वासुदेवेन दक्षिणे
आदिलक्ष्मीपदध्यानमाततान यतात्मवान्
तथान्तर्वायुरोधेन न चचाला चलेश्वरः
न ब्रह्मा नैव विष्णुर्वा न सिद्धः कपिलो ऽपि वा
तया समाधिनिष्ठायां न समर्थाः कथञ्चन
अर्धरात्रे पुरः स्थित्वा वाचं प्रोवाच वाङ्मयी