वासुदेवं परित्राणे संहारे च त्रिलोचनम्
ब्रह्मलोके च वैकुण्ठे कैलासे च वसंत्यमी
विहरन्ती महेशस्य पिधानं नेत्रयोर्व्यधात्
अन्धकारावृतमभूदतेजस्कं समन्ततः
इति कर्त्तव्यतामूढा न प्रजानन्त किञ्चन
त्वया पापं कृतं देवि मम नेत्रपिधानतः
सर्वं च वैदिकं कर्म त्वया नाशितमंबिके
गत्वा काशीं व्रतं तत्र किञ्चित्कालं समाचर
आराधयैतां नित्यां त्वं सर्वपापहरीं शिवाम्
इत्यादिश्य महादेवस्तत्रैवान्तरधीयत
चिरेण तपसा क्लिष्टामनन्यहृदयां शिवाम्
वत्से तपोभिरत्युग्रैरलं प्रीतास्मि सुव्रते
बालार्कायुतसंकाशां सर्वाभरणभूषिताम्
पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम्
विधातृहरिरुद्रेशसदाशिवपदप्रदाम्
प्रपञ्चद्वयनिर्माणकारिणीं तां परांबिकाम्
पुलकाचितसर्वाङ्गी हर्षेणोत्फुल्ललोचना
प्रणिपत्य च साष्टाङ्गं कृत्वा चैव प्रदक्षिणाम्
तामाह कृपया वीक्ष्य महात्रिपुरसुंदरी
वत्से लभस्व भर्तारं रुद्रं स्वमनसेप्सितम्
अहं त्वमिति को भेदस्त्वमेवाहं न संशयः
आमनन्ति हि योगीन्द्रास्त्वामेव ब्रह्मरूपिणीम्
भक्त्या प्रणम्य पश्यन्ती परां प्रीतिमुपाययौ
प्रविष्टा हृदयं तस्याः प्रहृष्टाया महामुने
स्वप्नः किमेष दृष्टो वा मया किमथ वा भ्रमः
प्रसन्नवदना सा तु प्रणते वदति स्म सा
मया दृष्टां तु कामाक्षीं युवां चेत्किमपश्यतम्
पुष्पाणि पूजनार्हाणि निधायाग्रे समूचतुः
इत्युक्त्वा पार्श्वयोस्तस्या निषण्णे विनयानते
गौरीसंप्राप्तये दध्यौ कामाक्षीं नियतेन्द्रियः