कश्चिदत्र विशेषो ऽस्ति वक्तव्यांशो ऽपि तं शृणु
चतुर्णामपि सर्वेषामादि कर्ता सदाशिवः
भूय एव प्रवक्ष्यामि सावधानमनाः शृणु
कङ्कं विलासमकरोत्कामाक्षीत्यभिविश्रुता
एतस्याश्चरितं दिव्यं वद मे वदतां वर
तत्तत्कर्मानुरूपं सा प्रदत्ते देहिनां फलम्
किञ्चिच्चिन्तयते कश्चित्स्वच्छन्दं विदधात्यसौ
इयमेव महालक्ष्मीः ससर्जाण्डत्रयं पुरा
एकस्मादण्डतो जातावंबिकापुरुषोत्तमौ
पार्वत्या परमेशानं सरस्वत्या पितामहम्
वासुदेवं परित्राणे संहारे च त्रिलोचनम्
ब्रह्मलोके च वैकुण्ठे कैलासे च वसंत्यमी
विहरन्ती महेशस्य पिधानं नेत्रयोर्व्यधात्
अन्धकारावृतमभूदतेजस्कं समन्ततः
इति कर्त्तव्यतामूढा न प्रजानन्त किञ्चन
त्वया पापं कृतं देवि मम नेत्रपिधानतः
सर्वं च वैदिकं कर्म त्वया नाशितमंबिके
गत्वा काशीं व्रतं तत्र किञ्चित्कालं समाचर
आराधयैतां नित्यां त्वं सर्वपापहरीं शिवाम्
इत्यादिश्य महादेवस्तत्रैवान्तरधीयत
चिरेण तपसा क्लिष्टामनन्यहृदयां शिवाम्
वत्से तपोभिरत्युग्रैरलं प्रीतास्मि सुव्रते
बालार्कायुतसंकाशां सर्वाभरणभूषिताम्
पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम्
विधातृहरिरुद्रेशसदाशिवपदप्रदाम्
प्रपञ्चद्वयनिर्माणकारिणीं तां परांबिकाम्
पुलकाचितसर्वाङ्गी हर्षेणोत्फुल्ललोचना
प्रणिपत्य च साष्टाङ्गं कृत्वा चैव प्रदक्षिणाम्
तामाह कृपया वीक्ष्य महात्रिपुरसुंदरी
वत्से लभस्व भर्तारं रुद्रं स्वमनसेप्सितम्