तां दृष्ट्वा भक्तितो नत्वा प्रयान्तु परमां गतिम्
विससर्ज च सर्वांस्तान्स्वनिकेतनिवृत्तये
तां नमस्कृत्य ते सर्वे ततो जगमुर्यथागतम्
आराध्य वैदिकैः स्तोत्रैः साष्टाङ्गं प्रणनाम सः
अथाकाशगिरा देवी ब्रह्माणमिदमब्रवीत्
प्रतिसंवत्सरं तत्र सेवां कुरुदृढाशय
श्रीकामगिरिपीठं तु साक्षाच्छ्रीपुरमध्यगम्
वामभागे वृतं लक्ष्यं विष्णुनान्यत्र सेविनम्
अदृश्यमूर्तिमव्यक्तमादधार यथा विधि
अर्चिष्मद्भिरप्रधृष्यैर्ल्लोकानामभिवृद्धये
मण्डलं त्वखिलं कृत्वा निजलोकं हि पालय
निक्षिप्य हृदि तां देवीं निजं धाम जगाम सः
साक्षादेवमहालक्ष्मीमिमां विद्धि घटोद्भव
तस्य भुक्तिश्च मुक्तिश्च करस्था नात्र संशयः
आदिर्नारायणः श्रीमान्भगवान्भक्तवत्सलः
महात्रिपुरसुन्दर्या महात्म्यं समुपादिशत्
रहस्यमन्त्रं संवक्ष्येशृणु तं त्वं समाहितः
सदाशिवो न जानाति कथं प्राकृतदेवताः
अकर्तुमन्यथा कर्तुं कर्तुमस्या अनुग्रहात्
तन्मायामोहितो भूत्वा त्ववशः शवतामगात्
कश्चिदत्र विशेषो ऽस्ति वक्तव्यांशो ऽपि तं शृणु
चतुर्णामपि सर्वेषामादि कर्ता सदाशिवः
भूय एव प्रवक्ष्यामि सावधानमनाः शृणु
कङ्कं विलासमकरोत्कामाक्षीत्यभिविश्रुता
एतस्याश्चरितं दिव्यं वद मे वदतां वर
तत्तत्कर्मानुरूपं सा प्रदत्ते देहिनां फलम्
किञ्चिच्चिन्तयते कश्चित्स्वच्छन्दं विदधात्यसौ
इयमेव महालक्ष्मीः ससर्जाण्डत्रयं पुरा
एकस्मादण्डतो जातावंबिकापुरुषोत्तमौ
पार्वत्या परमेशानं सरस्वत्या पितामहम्