ईश्वरो ब्रह्मणः पुत्रः कामचारी मनोजवः
पार्श्वे माल्यवतश्चापि पूर्वे ऽपूर्वा तु गण्डिका
भद्राश्वास्तत्र विज्ञेया नित्यं मुदितमानसाः
तत्र ते पुरुषाः स्वेता महोत्साहा बलान्विताः
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्र निभाननाः
दशवर्षसहस्राणि तेषामायुरनामयम्
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण च
रतिप्रधाना विमला जरादौर्गन्ध्यवर्जिताः
तत्रापि सुमहान्वृक्षो न्यग्रोधो रोहितो महान्
दशवर्षसहस्राणि शतानि दश पञ्च च
दक्षिणे वै शृङ्गवतः श्वेतस्याप्युत्तरेण च
महाबलाः सुतेजस्का जायन्ते तत्र मानवाः
एकादशसहस्राणि वर्षाणां ते महौजसः
यस्मिन्वर्षे महावृक्षो लकुचः षड्रसाश्रयः
त्रीणि शृङ्गवतः शृङ्गाण्युच्छ्रितानि महान्ति च
सर्वरत्नमयं चैकं भवनैरुपशोभितम्
कुरवस्तत्र तद्वर्षं पुण्यं सिद्धनिषेवितम्
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च
गन्धवर्णरसो पेतं प्रक्षरन्ति मधूत्तमम्
ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम्
सर्वर्तुसुखसंपन्ना न्निष्पङ्का नीरजा शुभा
शुक्लाभिजनसंपन्नाः सर्वे च स्थिरयौवनाः
तेषां ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतो पमम्
समं शीलं च रूपं च प्रियता चैव तत्समा
अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः
जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः
दृष्टः परमतत्त्वज्ञैर्भूयः किं वर्णयामि वः
चतुर्दशैते मनवः प्रजासर्गे ऽभवन्पुनः
एतच्छ्रुतवचस्तेषामब्रवीद्रोमहर्षणः
इदं तु मध्यमं चित्रं शुभाशुभफलोदयम्