तरुणारुणराजाभसैन्दर्यचरणद्वयः
विद्युदुल्लासितस्वानमनोज्ञमणिमेखलः
मुक्तावैदूर्यमाणिक्य निबद्धवरबन्धनः
जाह्नवीसरिदावर्तशोभिनाभीविभूषितः
आमुक्तमुक्तालङ्कारभासुरस्तनकुञ्चुकः
माणिक्यशकलाबद्धमुद्रिकाभिरलङ्कृतः
आभात्याप्रपदीनस्रग्दिव्याकल्पकदंबकैः
तप्तहाटकसंकॢप्तरत्नग्रीबोपशोभितः
पालीवतंसमाणिक्यताटङ्कपरिभूषितः
दाडिमीफलबीजाभदन्तपङ्क्तिविराजितः
औपम्यरहितोदारनासामणिमनोहरः
ईषदुन्मेषमधुरनीलोत्पलविलोचनः
अर्द्धेन्दुतुलितो भाले पूर्णेन्दुरुचिराननः
मत्तालिमालाविलसदलकाढ्यमुखांबुजः
अत्यर्थरत्नखचितमुकुटाञ्चितमस्तकः
शिवो विष्णुश्च तत्रत्याः समस्ताश्च महाजनाः
अथ तर्हि महेशानी स्वतन्त्रा प्रविवेश ह
दृष्ट्वा भूयो नमस्कृत्य पुनः प्रार्थितवान्विधिः
किञ्चिद्विज्ञापयाम्यद्य शृणु तत्कृपया मम
कर्तव्यो जगतामृद्धसेवायै च दिवौकसाम्
तां दृष्ट्वा भक्तितो नत्वा प्रयान्तु परमां गतिम्
विससर्ज च सर्वांस्तान्स्वनिकेतनिवृत्तये
तां नमस्कृत्य ते सर्वे ततो जगमुर्यथागतम्
आराध्य वैदिकैः स्तोत्रैः साष्टाङ्गं प्रणनाम सः
अथाकाशगिरा देवी ब्रह्माणमिदमब्रवीत्
प्रतिसंवत्सरं तत्र सेवां कुरुदृढाशय
श्रीकामगिरिपीठं तु साक्षाच्छ्रीपुरमध्यगम्
वामभागे वृतं लक्ष्यं विष्णुनान्यत्र सेविनम्
अदृश्यमूर्तिमव्यक्तमादधार यथा विधि
अर्चिष्मद्भिरप्रधृष्यैर्ल्लोकानामभिवृद्धये