श्रीमता वासुदेवेन सोदरेम महेश्वरः
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह
को वा वर्णयितुं शक्तो यदि जिह्वासहस्रवान्
विस्तृतं भुवनश्रेष्ठं कल्पितं परमेष्ठिना
इत्थं ता देवतास्तत्र तिस्रः सन्निहिताः सदा
प्राप्तौ सभावनागारं तदा विधिजनार्दनौ
संस्कारं वैदिकैर्मन्त्रैः कथयामासतुर्मुदा
विरञ्चिं दक्षिणेनाक्ष्णा वामेन हरिमैक्षत
प्रादुर्भूते प्रभापुञ्जे पञ्जरान्त इव स्थिते
जय कामाक्षिकामाक्षीत्यूचतुस्तां प्रणेमतुः
तिस्रः कोट्योर्ऽधकोटी च या यास्तीर् थाधिदेवताः
श्रीदेवीमुपतस्थाते वीजयन्त्यौ यथोचितम्
आदिश्रीनयनोत्पन्ने ते उभे भारतीश्रियौ
तदुच्चारणमात्रेण श्रीदेवी शं प्रयच्छति
अथ सा जगदीशानी वेदवेदाङ्गपारगे
पश्यतां सर्वदेवानां विधातुर्मुखमाविशत्
तदाज्ञां शिरसा धृत्वा रमा विष्णुश्च भक्तितः
प्रार्थयामासतुर्भूयस्तदावरणदेवताम्
तदावरणदेवत्वं प्राप्तौ पद्माच्युतौ तदा
तत्र यातो महागौर्याः प्रतिबिंबो मनोहरः
तरुणारुणराजाभसैन्दर्यचरणद्वयः
विद्युदुल्लासितस्वानमनोज्ञमणिमेखलः
मुक्तावैदूर्यमाणिक्य निबद्धवरबन्धनः
जाह्नवीसरिदावर्तशोभिनाभीविभूषितः
आमुक्तमुक्तालङ्कारभासुरस्तनकुञ्चुकः
माणिक्यशकलाबद्धमुद्रिकाभिरलङ्कृतः
आभात्याप्रपदीनस्रग्दिव्याकल्पकदंबकैः
तप्तहाटकसंकॢप्तरत्नग्रीबोपशोभितः
पालीवतंसमाणिक्यताटङ्कपरिभूषितः
दाडिमीफलबीजाभदन्तपङ्क्तिविराजितः