सदाशिवस्य मनसो लालनाल्ललिताभिधा
खण्डान्तरे वदिष्यामि तद्विलासं महाद्भुतम्
आनन्दबोधैकरसं तन्महन्मन्महे महः
श्रुतमेतन्महापुण्यं ललिताख्यानमुत्तमम्
पाशाङ्कुशधनुर्बाण परिष्कृतचतुर्भुजा
नवावरणमीशानी श्रीपरस्याधिदैवतम्
केयं विभाति कल्याणी कामाक्षीत्यभिविश्रुता
अदृष्टपूर्वसैन्दर्या परज्योतिर्मयी परा
इति ध्यात्वा नमस्कृत्य तमगस्त्यमथाब्रवीत्
रहस्यं संप्रवक्ष्यामि लोपामुद्रापते शृणु
अन्ताख्येति तथा प्रोक्ता स्वरूपात्तत्त्वचिन्तकैः
दक्षहस्ते योगमुद्रां वामहस्ते तु पुस्तकम्
परापरा तृतीया स्याद्बा लार्कायुतसंमिता
वामोरुन्यस्तहस्ता वा किरीटार्धेन्दुभूषणा
पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करा
सरस्वतीरमागौर्यस्तामेवाद्यामुपासते
नेत्रद्वयं महेशस्य काशीकाञ्जीपुरद्वयम्
काञ्चीक्षेत्रे पुरा धाता सर्वलोकपितामहः
आत्मैकध्यानयुक्तस्य तस्यव्रतवतो मुने
पद्मासने च तिष्ठन्ती विष्णुना जिष्णुना सह
सिंहासनेश्वरी ख्याता सर्वलोकैकरक्षिणी
आदिलक्ष्मीमिति ख्यातां सर्वेषां हृदये स्थिताम्
कामाक्षीति प्रसिद्धां तामस्तौ षीत्पुर्मभक्तिमान्
जय श्रीनाथसहजे जय श्रीसर्वमङ्गले
जयजयेधिकसिद्धेशि जय योगीन्द्रवन्दिते
जयजय हिमशैलकीर्तनीये जयजय शङ्करकामवामनेत्रि
या करोति स्वसङ्कल्पात्तस्यै देव्यै नमोनमः
निहन्त्याद्यातितीक्ष्णास्त्रैस्तस्यै देव्यैदृ
देद्या या च स्वसंवेद्या तस्यै देव्यै नमोनमः
परं ब्रह्मेति या ख्याता तस्यैदृ