तद्गुणा एव घोक्ष्यन्ते सर्वत्र कविपुङ्गवैः
ये ध्यायन्ति महादेवीं तास्ताः सिद्धीर्भञ्जति ते
अहश्चक्रे ज्वलज्ज्वालश्चिन्तनीयस्तु मूलके
नीभालनीये ऽहश्चक्रे आबालान्तज्वलच्छिखः
नीभालनीयस्तार्तीयखण्डो दुरितखण्डकः
रक्तसंध्यकरोचिः स्याद्वशीकरणकर्मणि
नीला च मूकीकरणे पीता स्तंभनकर्मणि
धनलाभे सुवर्णाभा चिन्त्यते ललितांबिका
ये ध्यायन्ति महापुञ्जं ते स्युः संसिद्धसिद्धयः
प्राप्यते सद्भिरेवैषा नासद्भिस्तु कदाचन
न तेन लभ्यते विद्या ललिता परमेश्वरी
तद्वंश्याः सर्व एव स्युर्मुक्तास्तृप्ता न संशयः
वेदाः समस्तशास्त्राणि स्तुवन्ति ललितेश्वरीम्
इयमेव महत्तीर्थमियमेव महत्फलम्
अर्चन्तीमां सुरश्रेष्ठा ब्रह्माद्याः पञ्चसिद्धिदाम्
दैवबाह्यैर्वृथातर्कैर्वृथा विभ्रान्त बुद्धिभिः
दर्शनद्वेषिभिः पापशीलैराचारनिन्दकैः
एतादृशानां मर्त्यानां देवानां चातिदुर्लभा
भण्डासुर वधायैषा प्रादुर्भूता चिदग्नितः
कामाक्षीति विधात्रा तु प्रस्तुता ललितेश्वरी
सदाशिवस्य मनसो लालनाल्ललिताभिधा
खण्डान्तरे वदिष्यामि तद्विलासं महाद्भुतम्
आनन्दबोधैकरसं तन्महन्मन्महे महः
श्रुतमेतन्महापुण्यं ललिताख्यानमुत्तमम्
पाशाङ्कुशधनुर्बाण परिष्कृतचतुर्भुजा
नवावरणमीशानी श्रीपरस्याधिदैवतम्
केयं विभाति कल्याणी कामाक्षीत्यभिविश्रुता
अदृष्टपूर्वसैन्दर्या परज्योतिर्मयी परा
इति ध्यात्वा नमस्कृत्य तमगस्त्यमथाब्रवीत्
रहस्यं संप्रवक्ष्यामि लोपामुद्रापते शृणु