दर्शनादेव सर्वषामन्तरालस्य पूरकः
बले मरुत्समानः स्यात्स्थिरत्वे हिमवानिव
क्षणात्क्षोभकरो मूर्त्या ग्रामपल्लीपुरादिषु
उच्चाटको मोहकश्च मारको दुष्टचेतसाम्
अष्टादशसु विद्यासु निरूढिमभिगच्छति
न तस्याविदितं किञ्चित्सर्वशास्त्रेषु कुम्भज
तत्त्वञ्जानाति निखिलं सर्वज्ञत्वं च गच्छति
तत्कोपाग्नेर्विषयतां गन्तुं नालं जगत्त्रयी
विश्रस्तरशनाबन्धा गलत्कुण्डलसञ्चयाः
अत्यन्तरागतरलव्यापारनयनाञ्चलाः
ऊरुस्तम्भेन निष्पन्दा नमितास्याश्च लज्जया
अन्यमाकारमिव च प्राप्ता मानसजन्मना
वीक्ष्यमाणा इवानङ्गशरपावकवृष्टिभिः
सिच्यमानाः श्रमजलैः शुच्यमानाश्च लज्जया
लोकाद्भयं बन्धुभयं परलोकभये तथा
यत्र कुत्रापि तिष्ठन्तं तं धावन्ति मृगीदृशः
तद्वद्भ्रमन्ति चित्तानि दर्शने तस्य सुभ्रुवाम्
तं सेवन्ते समस्तानां विद्यानामपि पङ्क्तयः
अन्यासां तु वराकीणां वक्तव्यं किं तपोधन
तत्कीर्तिघोषणा पुण्या सदा द्युसद्द्रुमायते
तद्गुणा एव घोक्ष्यन्ते सर्वत्र कविपुङ्गवैः
ये ध्यायन्ति महादेवीं तास्ताः सिद्धीर्भञ्जति ते
अहश्चक्रे ज्वलज्ज्वालश्चिन्तनीयस्तु मूलके
नीभालनीये ऽहश्चक्रे आबालान्तज्वलच्छिखः
नीभालनीयस्तार्तीयखण्डो दुरितखण्डकः
रक्तसंध्यकरोचिः स्याद्वशीकरणकर्मणि
नीला च मूकीकरणे पीता स्तंभनकर्मणि
धनलाभे सुवर्णाभा चिन्त्यते ललितांबिका
ये ध्यायन्ति महापुञ्जं ते स्युः संसिद्धसिद्धयः
प्राप्यते सद्भिरेवैषा नासद्भिस्तु कदाचन