तद्दशांशं ब्राह्मणानां भोजनं समुदीरितम्
लक्षमात्रं जपित्वा तु मनुष्यान्वशमानयेत्
लक्षत्रितयजापेन सर्वान्वशयते नृपान्
पञ्चलक्षजपे जाते सर्वाः पातालयोषितः
क्षुभ्यन्ति सप्त लक्षेण स्वर्गलोकमृगीदृशः
नवलक्षेण गीर्वाणा नखिलान्वशमानयेत्
लक्षद्वादशजापेन सिद्धीरष्टौ वशं नयेत्
विष्णोर्विष्णुत्वमेतेन शिवस्य शिवतामुना
अनेन मन्त्रराजेन जाता इत्यवधारय
त्रैलोक्यसुन्दराकारो मन्मथस्यापि मोहकृत्
दर्शनादेव सर्वषामन्तरालस्य पूरकः
बले मरुत्समानः स्यात्स्थिरत्वे हिमवानिव
क्षणात्क्षोभकरो मूर्त्या ग्रामपल्लीपुरादिषु
उच्चाटको मोहकश्च मारको दुष्टचेतसाम्
अष्टादशसु विद्यासु निरूढिमभिगच्छति
न तस्याविदितं किञ्चित्सर्वशास्त्रेषु कुम्भज
तत्त्वञ्जानाति निखिलं सर्वज्ञत्वं च गच्छति
तत्कोपाग्नेर्विषयतां गन्तुं नालं जगत्त्रयी
विश्रस्तरशनाबन्धा गलत्कुण्डलसञ्चयाः
अत्यन्तरागतरलव्यापारनयनाञ्चलाः
ऊरुस्तम्भेन निष्पन्दा नमितास्याश्च लज्जया
अन्यमाकारमिव च प्राप्ता मानसजन्मना
वीक्ष्यमाणा इवानङ्गशरपावकवृष्टिभिः
सिच्यमानाः श्रमजलैः शुच्यमानाश्च लज्जया
लोकाद्भयं बन्धुभयं परलोकभये तथा
यत्र कुत्रापि तिष्ठन्तं तं धावन्ति मृगीदृशः
तद्वद्भ्रमन्ति चित्तानि दर्शने तस्य सुभ्रुवाम्
तं सेवन्ते समस्तानां विद्यानामपि पङ्क्तयः
अन्यासां तु वराकीणां वक्तव्यं किं तपोधन
तत्कीर्तिघोषणा पुण्या सदा द्युसद्द्रुमायते