तन्मन्त्राणां लक्षणं च सर्वमेतन्निवेदय
सर्वेभ्यो ऽपि हि शब्देभ्यो वेदराशिर्महान्मुने
सर्वेभ्यो वेदमन्त्रेभ्यो विष्णुमन्त्रा महत्तराः
तेभ्यो गाणपता मन्त्रा मुने वीर्य महत्तराः
तेभ्यो ऽपि लक्ष्मीमन्त्रास्तु तेभ्यः सारस्वता वराः
सर्वाम्नायमनुभ्यो ऽपि वाराहा मनवो वराः
तेभ्यो ऽपि ललितामन्त्रा दशभेदविभेदिताः
लोपामुद्रा कामराज इति ख्यातिमुपागतौ
हंसादेर्वाच्यतां याताः कामराजो महेस्वरः
हादिकाद्योर्मन्त्रयोस्तु भेदो वर्णत्रयोद्भवः
शिवेन शक्त्या कामेन क्षित्या चैव तु मायया
शक्रेण भुवनेशेन चन्द्रेण च मनोभुवा
कामादिमन्त्रराजस्तु स्मरयोनिः श्रियो मुखे
ये यजन्ति महाभागास्तेषां सर्वत्र सिद्धये
सम्यक्संसाधयेद्विद्वान्वक्ष्यमाणप्रकारतः
प्रातरुत्थाय शिरसिस्मृत्वा कमलमुज्ज्वलम्
तत्र श्रीमद्गुरुं ध्वात्वा प्रसन्नं करुणामयम्
अथागत्य च तैलेन सामोदेन विलेपितः
तस्मादुष्णोदके स्नायात्तदभावे यथोदकम्
आचम्य प्रयतो विद्वान्हृदि ध्यायन्परांबिकाम्
अन्तर्हितश्च शुद्धात्मा सन्ध्यावन्दनमाचरेत्
सपुष्पचन्दनं चार्ध्यं मार्तण्डाय समुत्क्षिपेत्
तर्प्पयित्वा यथाशक्ति मूलेन ललितेश्वरीम्
दिवाकरमुपास्थाय देवीं च रविबिम्बगाम्
चारुकर्पूरकस्तूरीचन्दनादिविलेपितः
आमोदिकुसुमस्रग्भिरवतंसितकुन्तलः
पूजाखण्डे वक्ष्यमाणान्कृत्वा न्यासाननुक्रमात्
नानावृक्षमहोद्यानमारभ्य ललितावधि
पूजाखण्डोक्तमार्गेम पूजां कृत्वा विलक्षणः
षट्त्रिंशल्लक्षसंख्यां तु जपेद्विद्या प्रसीदति