इन्द्रगोपवितानं तु बद्धं त्रैलोक्यदुर्लभम्
मद्वाणी वर्णयिष्यन्ती कण्ठ एव ह्रिया हता
मनसो ऽपि हि दूरे तत्सौभाग्यं केनवर्ण्यते
प्रादुर्भुता चिदनलाद्दग्धनिःशेषदानवा
अधिष्ठाय श्रीनगरं सदा रक्षति विष्टपम्
न भेदको ऽपि विन्यासो नाममात्रं पुरां भिदा
वदन्ति श्रीपुरकथां ते यान्ति परमां गतिम्
ये पुस्तके धारयन्ति ते यान्ति परमां गतिम्
संपादयन्ति ये भक्तास्ते यान्ति परमां गतिम्
भण्डासुरवधश्चैव देव्याः श्रीनगरस्थितिः
तन्मन्त्राणां लक्षणं च सर्वमेतन्निवेदय
सर्वेभ्यो ऽपि हि शब्देभ्यो वेदराशिर्महान्मुने
सर्वेभ्यो वेदमन्त्रेभ्यो विष्णुमन्त्रा महत्तराः
तेभ्यो गाणपता मन्त्रा मुने वीर्य महत्तराः
तेभ्यो ऽपि लक्ष्मीमन्त्रास्तु तेभ्यः सारस्वता वराः
सर्वाम्नायमनुभ्यो ऽपि वाराहा मनवो वराः
तेभ्यो ऽपि ललितामन्त्रा दशभेदविभेदिताः
लोपामुद्रा कामराज इति ख्यातिमुपागतौ
हंसादेर्वाच्यतां याताः कामराजो महेस्वरः
हादिकाद्योर्मन्त्रयोस्तु भेदो वर्णत्रयोद्भवः
शिवेन शक्त्या कामेन क्षित्या चैव तु मायया
शक्रेण भुवनेशेन चन्द्रेण च मनोभुवा
कामादिमन्त्रराजस्तु स्मरयोनिः श्रियो मुखे
ये यजन्ति महाभागास्तेषां सर्वत्र सिद्धये
सम्यक्संसाधयेद्विद्वान्वक्ष्यमाणप्रकारतः
प्रातरुत्थाय शिरसिस्मृत्वा कमलमुज्ज्वलम्
तत्र श्रीमद्गुरुं ध्वात्वा प्रसन्नं करुणामयम्
अथागत्य च तैलेन सामोदेन विलेपितः
तस्मादुष्णोदके स्नायात्तदभावे यथोदकम्
आचम्य प्रयतो विद्वान्हृदि ध्यायन्परांबिकाम्