दीर्घाणि तत्र चत्वारि मध्यमं तदिलावृतम्
परं नीलवतो यच्च वेद्यर्द्धं तु तदुत्तरम्
तयोर्मध्ये तु विज्ञेयो मेरुर्मध्य इलावृतम्
उदगायेतो महाशैलो माल्यवान्नाम नामतः
आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः
आयामतो ऽथ विस्तारान्माल्यवा नितिविश्रुतः
चतुर्वणः स सौवर्णः चतुरस्रः समुच्छ्रितः
तरुणादित्यवर्णाभो विधूम इव पावकः
प्रविष्टः षोडशाधस्ताद्विस्तृतः षोडशैव तु
विस्तारात्रिगुणस्तस्य परिणाहः समन्ततः
चत्वारिंशत्सहस्राणि योजनानां समन्ततः
चतुरस्रेण मानेन परिणाहः समन्ततः
स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः
तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः
स तु मेरुः परिवृतो भुवनैर्भूतभावनैः
भद्राश्वा भरताश्वैव केतुमालाश्च पश्चिमाः
गन्धमादनपर्श्वे तु परैषापरगण्डिका
द्वात्रिंशत्तु सहस्राणि योजनैः पूर्वपश्चिमात्
तत्र ते शुभकर्माणः केतुमालाः प्रतिष्ठिताः
स्त्रियश्चोत्पल पत्राभाः सर्वास्ताः प्रियदर्शनाः
ईश्वरो ब्रह्मणः पुत्रः कामचारी मनोजवः
पार्श्वे माल्यवतश्चापि पूर्वे ऽपूर्वा तु गण्डिका
भद्राश्वास्तत्र विज्ञेया नित्यं मुदितमानसाः
तत्र ते पुरुषाः स्वेता महोत्साहा बलान्विताः
चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्र निभाननाः
दशवर्षसहस्राणि तेषामायुरनामयम्
दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण च
रतिप्रधाना विमला जरादौर्गन्ध्यवर्जिताः
तत्रापि सुमहान्वृक्षो न्यग्रोधो रोहितो महान्
दशवर्षसहस्राणि शतानि दश पञ्च च