शुचिना मृदुना कॢप्तः पद्मरागमणित्विषा
शृङ्गारवेषरुचिरस्सदा षोडशवार्षिकः
हारकेयूरमुकुटकटकाद्यैरलङ्कृतः
जागर्ति भगवानादिदेवः कामेश्वरः शिवः
सदा षोडशवर्षा च नवयौवनदर्पिता
यावकश्रीर्निर्व्यपेक्षा पादलौहित्यवाहिनी
अनङ्गवरतूणीरदर्पोन्मथनजङ्घिका
अलङ्कृतनितंबाढ्या जघनाभोगभासुरा
नतनाभिमहावर्तत्रि वल्यूर्मिप्रभासरित्
अतिपीवरवक्षोजभारभङ्गुरमध्यभूः
शिरीषदाममृदुलच्छदाभांश्चतुरो भुजान्
वहन्ती पतिसंसृष्टशङ्खसुन्दरकन्धरा
कुन्दकुड्मललक्ष्मीकैर्दन्तैर्दर्शितचन्द्रिका
केतकान्तर्दलश्रोणी दीर्घदीर्घविलोचना
पालीवतं समाणिक्यकुण्डलामण्डितश्रुतिः
शरच्चञ्चन्निशानाथमण्डलीमधुरानना
स्फुरत्तिलकरत्नाभभालनेत्रविराजिता
सीमन्तरेशाविन्यस्तकिन्दूरश्रेणिभासुरा
सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता
ब्रह्मविष्णुगिरीशेशसदाशिवनिदानभूः
भासते सा भगवती पापघ्नी ललितांबिका
यस्याः पूजाफलं प्राहुयस्या एव हि पूजनम्
वर्षकोटिसहस्रेणाप्येकांशो वर्ण्यते न हि
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह
न पक्षपातान्न स्नेहान्न मोहाद्वा मयोच्यते
मषीपात्राणि सर्वे ऽपि सप्त संतु महार्णवाः
तस्य लेखनकालो ऽस्तु परार्ध्याधिकवत्सरैः
सर्वे बृहस्पतिसमा वक्तारो यदि कुंभज
अथ वा वृत्तिरखिला निष्फला तद्गुणस्तुतौ
महामायाजवनिका लंबते मेचकप्रभा