ललिताज्ञाप्रवर्तिन्यो वशीनां पीठवर्तिकाः
बिन्दुनाद महापीठं दशहस्तसमुन्नतम्
बिन्दुपीठमिदं ज्ञेयं श्रीपीठमपि चेष्यते
आनन्दपीठमपि च पञ्चाशत्पीठरूपधृक्
जागर्ति मञ्चरत्नं तु प्रपञ्चत्रयमूलकम्
दशहस्तसमुन्नम्रा हस्तत्रितयविष्ठिताः
शक्तिभावमनुप्राप्ताः सदा श्रीध्यानयोगतः
ब्रह्मात्मकः स विज्ञेयो वह्निदिग्भागमाश्रितः
ईश्वरात्मा स विज्ञेय ईशदिग्भागमाश्रितः
उपर्यधःस्तंभरूपा मध्ये पुरुषरूपिणः
तेषामुपरि मञ्चस्य फलकस्तु सदाशिवः
नल्वषट्कायामवांश्च सदाभास्वरमूर्तिमान्
चिन्तामणिमयाङ्गानि तत्त्वरूपाणि तापस
आरोहस्य क्रमेणैव सोपानान्यभिदध्महे
रसो रूपं स्पर्शसंब्दोपस्थपायुपदानि च
अहङ्कारश्च बुद्धिश्च मनः प्रकृतिपूरुषौ
शुद्धाविद्येश्वरसदाशिवशक्तिः शिवा इति
पूषा सोपानपङ्क्तिश्च मञ्चपूर्वदिशंश्रिताः
हस्तमात्रं समुन्नम्रं चतुर्नल्वप्रविस्तरम्
गड्डकानां चतुः षष्टिशोभितं पाटलत्विषा
शुचिना मृदुना कॢप्तः पद्मरागमणित्विषा
शृङ्गारवेषरुचिरस्सदा षोडशवार्षिकः
हारकेयूरमुकुटकटकाद्यैरलङ्कृतः
जागर्ति भगवानादिदेवः कामेश्वरः शिवः
सदा षोडशवर्षा च नवयौवनदर्पिता
यावकश्रीर्निर्व्यपेक्षा पादलौहित्यवाहिनी
अनङ्गवरतूणीरदर्पोन्मथनजङ्घिका
अलङ्कृतनितंबाढ्या जघनाभोगभासुरा
नतनाभिमहावर्तत्रि वल्यूर्मिप्रभासरित्
अतिपीवरवक्षोजभारभङ्गुरमध्यभूः