आहत्याष्टायुधानीति प्रज्वलन्ति विभान्ति च
पीतैरतीव तृप्तानिदिव्यास्त्राण्यति जाग्रति
वर्तन्ते ऽस्त्रान्तरे तत्र तेषां संख्या तु कोटिशः
कृपाणः पट्टिशं चैव मुद्गरं भिन्दिपालकम्
अष्टायुधमहाशक्तीः सेवन्ते मदविह्वलाः
धिष्ण्यं तु समयेशीनां स्थानं च तिसृणां मतम्
सैव निःशेषविश्वानां सवित्री ललितेश्वरी
वज्रेशी भगमाला च ताः सेवन्ते सहस्रशः
ताः सर्वास्तत्र सेवन्ते कामेशादिमहोदयाः
चक्रिणीनां योगिनीनां श्रीदेवी पूरणात्मिका
कामेश्यादिचतुर्थी सा नित्यानां षोडशी मता
समयेश्यन्तरालस्योपरिष्टादिल्वलान्तक
चतुर्नल्वप्रविस्तारं प्राग्वत्सोपानमण्डितम्
सर्वेषां मन्त्रगुरवः सर्वविद्यामहार्णवाः
सृष्टाः कामंशदेवेन तेषां नामानि मे शृणु
तैः सृष्टा बहवो लोकारक्षार्थं पादुकात्मकाः
प्राप्तसालोक्यसारूप्यसायुज्यादिकसिद्धयः
अथ नाथान्तरालस्योपरिष्टाद्धिष्ण्यमुत्तमम्
नित्यान्तरमिति प्रोक्तं नित्याः पञ्चदशात्र वै
नित्यक्लिन्ना अपि तथा भेरुण्डा वह्निवासिनी
नित्या नीलपताका च विजया सर्वमङ्गला
एता देवीस्वरूपाः स्युर्महाबलपराक्रमाः
कालत्रितयरूपाश्च कालग्रासविचक्षणाः
तत्तत्कालशतायुष्यरूपा देव्याज्ञया स्थिताः
सेवन्ते जगतामृद्ध्यै ललितां चित्स्वरूपिणीम्
विसृष्टिबिन्दुचक्रे तु षोडश्या भवनं मतम्
अङ्गदेव्यन्तरं प्रोक्तं हस्तविंशातिरुन्नतम्
तस्मिन्हृदयदेव्याद्याः शक्तयः संति वै मुने
वर्मदेवी दृष्टिदेवी शस्त्रदेवी षडीरिताः
नवलावण्यपूर्णाङ्ग्यः सावधाना धृतायुधाः