सर्वोन्मादनमुद्राश्च चक्रस्य परिपालिकाः
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम्
चक्रं महत्तरं दिव्यं सर्वज्ञाद्याः प्रकीर्तिताः
सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी
सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी
सर्वेप्सितप्रदा चैता निर्गर्वा योगिनीश्वराः
चक्राणि कानिचित्प्रोक्तान्यन्यान्यपि मुने शृणु
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम्
सर्वरोगहरं नाम्ना तच्चक्रमिति विश्रुतम्
स्वरैस्तु रहितास्तत्र प्रथमा वशिनीश्वरी
चवर्गजुष्टा वागीशी मोदिनी स्यात्तृतीयका
तवर्गेण तथोपेता पञ्चमी वाक्प्रधारणा
यादिवर्णचतुष्कोणे सर्वैश्वर्यादिवाङ्मयी
एता देव्यो जपरता मुक्ताभरणमण्डिताः
विनोदयन्त्यः श्रीदेवीं वर्तन्ते कुम्भसम्भवः
नायिका स्वस्य चक्रस्य सिद्धानाम्ना प्रकीर्तिता
वशिन्याद्यन्तरालस्योपरिष्टाद्विन्ध्यमर्दन
अस्त्रं चक्रमितिज्ञेयं तत्र बाणादिदेवताः
अङ्कुशद्वितयं दीप्तमादिस्त्रीपुंसयोर्द्वयोः
पाशद्वयं च दीप्ताभं चत्वार्यस्त्राणि कुम्भज
आहत्याष्टायुधानीति प्रज्वलन्ति विभान्ति च
पीतैरतीव तृप्तानिदिव्यास्त्राण्यति जाग्रति
वर्तन्ते ऽस्त्रान्तरे तत्र तेषां संख्या तु कोटिशः
कृपाणः पट्टिशं चैव मुद्गरं भिन्दिपालकम्
अष्टायुधमहाशक्तीः सेवन्ते मदविह्वलाः
धिष्ण्यं तु समयेशीनां स्थानं च तिसृणां मतम्
सैव निःशेषविश्वानां सवित्री ललितेश्वरी
वज्रेशी भगमाला च ताः सेवन्ते सहस्रशः
ताः सर्वास्तत्र सेवन्ते कामेशादिमहोदयाः
चक्रिणीनां योगिनीनां श्रीदेवी पूरणात्मिका