वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम्
द्वे द्वे सहस्रे विस्तीर्णा योजनानां समुच्छ्रयात्
योजनानां सहस्राणि शतं द्वावायतौ गिरी
श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांस्तथा
तेषां मध्ये जनपदास्तानि वर्णाणि सप्त वै
संततानि नदीभेदैरगम्यानि परस्परम्
इदं हैमवतं वर्षं भारतं नाम विश्रुतम्
नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते
इलावृतात्पिरं नीलं सम्यकं नाम विश्रुतम्
हिरण्मयात्परं चैव शृङ्गवत्तः कुरु स्मृतम्
दीर्घाणि तत्र चत्वारि मध्यमं तदिलावृतम्
परं नीलवतो यच्च वेद्यर्द्धं तु तदुत्तरम्
तयोर्मध्ये तु विज्ञेयो मेरुर्मध्य इलावृतम्
उदगायेतो महाशैलो माल्यवान्नाम नामतः
आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः
आयामतो ऽथ विस्तारान्माल्यवा नितिविश्रुतः
चतुर्वणः स सौवर्णः चतुरस्रः समुच्छ्रितः
तरुणादित्यवर्णाभो विधूम इव पावकः
प्रविष्टः षोडशाधस्ताद्विस्तृतः षोडशैव तु
विस्तारात्रिगुणस्तस्य परिणाहः समन्ततः
चत्वारिंशत्सहस्राणि योजनानां समन्ततः
चतुरस्रेण मानेन परिणाहः समन्ततः
स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः
तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः
स तु मेरुः परिवृतो भुवनैर्भूतभावनैः
भद्राश्वा भरताश्वैव केतुमालाश्च पश्चिमाः
गन्धमादनपर्श्वे तु परैषापरगण्डिका
द्वात्रिंशत्तु सहस्राणि योजनैः पूर्वपश्चिमात्
तत्र ते शुभकर्माणः केतुमालाः प्रतिष्ठिताः
स्त्रियश्चोत्पल पत्राभाः सर्वास्ताः प्रियदर्शनाः