स्मृत्याकर्षणिका नित्या नामाकर्षणिका कला
अमृताकर्षणी चान्या शरीराकर्षणी कला
सर्वाशापूरिकाभिख्या चक्राधिष्ठानदेवता
नित्या कलान्तरादूर्ध्वं धिष्ण्य मत्यन्तसुन्दरम्
प्राग्वत्सोपानसंयुक्तं सर्वसंक्षोभणाभिधम्
नवतारुण्यमच्चाश्च सेवन्ते परमेश्वरीम्
रेखा वेगिन्यङ्कुशा च मालिन्यष्टौ च शक्तयः
सर्वसंक्षोभमिदं चक्रं तदधिदेवता
तच्चक्रपालनकरी मुद्राकर्षणिका स्मृता
संक्षोभिण्याद्यन्तरं स्यात्सर्वसौभाग्यदायकम्
चतुर्दश वसंत्येव तासां नामानि मच्छृणु
सर्वाकर्षणिका शाक्तिः सर्वाह्लादनिका तथा
सर्वजृंभिणिका शक्तिस्तथा सर्ववशङ्करी
सर्वार्थसाधिका शक्तिः सर्वसंपत्तिपूरिणी
एताश्च संप्रदायाख्याश्चक्रिणीपुरवासिनीः
कोटिशः शक्तयस्तत्र तासां किङ्कर्य्य उद्धृताः
सर्वसिद्धादिकानां तु मन्दिरं विष्ट्यमुच्यते
सर्वप्रियङ्करी देवी सर्वमङ्गलकारिणी
सर्वमृत्युप्रशमिनी सर्वविघ्ननिवारिणी
एता देव्यः कलोत्कीर्णा योगिन्यो नामतः स्मृताः
सर्वोन्मादनमुद्राश्च चक्रस्य परिपालिकाः
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम्
चक्रं महत्तरं दिव्यं सर्वज्ञाद्याः प्रकीर्तिताः
सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी
सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी
सर्वेप्सितप्रदा चैता निर्गर्वा योगिनीश्वराः
चक्राणि कानिचित्प्रोक्तान्यन्यान्यपि मुने शृणु
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम्
सर्वरोगहरं नाम्ना तच्चक्रमिति विश्रुतम्
स्वरैस्तु रहितास्तत्र प्रथमा वशिनीश्वरी