मुहुः प्रवाहरूपेण प्रसरन्ती महामुने
दक्षिणद्वारदेशस्तु दक्षिणाम्नायलक्षणः
उत्तरद्वारदेशः स्यादुत्तराम्नायलक्षणः
परितस्तत्र वर्तन्ते भासयन्तो गृहान्तरम्
अत्युच्चैर्वेदिकाभागे बिन्दुचक्रं महात्तरम्
भित्तिः क्रोशं परित्यज्य क्रोशत्रयमुदाहृतम्
चतुर्विंशतिसाहस्रहस्तैः संमितमुच्यते
अन्तरे भेदिते जाते हस्तसंख्या मयोच्यते
हस्तविंशतिरुन्नम्रं तत्र स्युरणिमादयः
किष्कुश्चतुःशती नल्वकिष्कुर्हस्त उदीर्यते
अणिमा महिमा चैव लघिमा गरिमा तथा
इच्छा प्राप्तिः सर्वकामेत्येताः सिद्धय उत्तमाः
खड्गसिद्धिः पादुकाया सिद्धिरञ्जनसिद्धिकः
एता अष्टौ सिद्धयस्तु बह्व्यो ऽन्या योगिसंमताः
कोटिशः सिद्धयस्तस्मिन्नणिमाद्यन्तरे मुने
अत्युदारप्रकृतयः खेलन्ति मदविह्वलाः
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम्
ब्रह्माद्यंबरधिष्ण्यं स्यात्तत्रदेवीः स्थिताः शृणु
महालक्ष्मीरष्टमी तु तत्रैताः कृतमन्दिराः
पूर्वादिदिशमारभ्य प्रादक्षिण्यकृतालयाः
मुद्रान्तरमिति त्रैधं तत्र मुद्राः कृतालयाः
खेचरी बीजयोन्याख्या त्रिखण्डा दशमी पुनः
अत्यन्तसुन्दराकारा नवयौवनविह्वलाः
सेवन्ते मुनिशार्दूल ललितापरमेश्वरीम्
एतस्मिञ्छक्तयो यासु ता उक्ताः प्रकटाभिधाः
तच्चक्रपालनकरी मुद्रासंक्षोभणात्मिका
पर्वतश्चैव सोपानमुत्तरोत्तरमिष्यते
परितः कृतसंस्थानाः षोडशेन्दुकलात्मिकाः
तासां नामानि मत्तस्त्वमवधारय कुम्भज
रसाकर्षणिका नित्या गन्धाकर्षणिका कला