ब्रह्माण्डपुराणम्
ब्रह्मविष्णुमहेशानामर्ध्यस्थानम्य पूर्वतः
ललितामन्त्रजाप्याश्च श्रीदेवीं समुपासते
याम्यद्वारप्रभृतिषु सर्वेष्वपि समं स्मृतम्
तच्छ्रीपट्टनमध्यस्थं योजनद्वयविस्मृतम्
चिन्तामणिशिलाभिश्च च्छादिनीभिस्तथोपरि
गृहभित्तिस्तथोन्नम्रा चतुर्योजनमानतः
ततोर्ध्वं ह्राससंयुक्तं स्थौल्यत्रिमुकुटोज्ज्वला
सदा देदीप्यमानानि चिन्तामणिमयान्यपि
यस्य द्वाराणि चत्वारि क्रोशार्धायामभाञ्जि च
द्वारेषु सर्वेषु पुनश्चिन्तामणिगृहान्तरे
मुहुः प्रवाहरूपेण प्रसरन्ती महामुने
दक्षिणद्वारदेशस्तु दक्षिणाम्नायलक्षणः
उत्तरद्वारदेशः स्यादुत्तराम्नायलक्षणः
परितस्तत्र वर्तन्ते भासयन्तो गृहान्तरम्
अत्युच्चैर्वेदिकाभागे बिन्दुचक्रं महात्तरम्
भित्तिः क्रोशं परित्यज्य क्रोशत्रयमुदाहृतम्
चतुर्विंशतिसाहस्रहस्तैः संमितमुच्यते
अन्तरे भेदिते जाते हस्तसंख्या मयोच्यते
हस्तविंशतिरुन्नम्रं तत्र स्युरणिमादयः
किष्कुश्चतुःशती नल्वकिष्कुर्हस्त उदीर्यते
अणिमा महिमा चैव लघिमा गरिमा तथा
इच्छा प्राप्तिः सर्वकामेत्येताः सिद्धय उत्तमाः
खड्गसिद्धिः पादुकाया सिद्धिरञ्जनसिद्धिकः
एता अष्टौ सिद्धयस्तु बह्व्यो ऽन्या योगिसंमताः
कोटिशः सिद्धयस्तस्मिन्नणिमाद्यन्तरे मुने
अत्युदारप्रकृतयः खेलन्ति मदविह्वलाः
हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम्
ब्रह्माद्यंबरधिष्ण्यं स्यात्तत्रदेवीः स्थिताः शृणु
महालक्ष्मीरष्टमी तु तत्रैताः कृतमन्दिराः
पूर्वादिदिशमारभ्य प्रादक्षिण्यकृतालयाः