मातृकाया उत्तरतस्तस्यां विन्ध्यनिषूदन
श्रीमहाशम्भुनाथा च देव्याविर्भावकारणम्
उत्तरोत्तरमेतास्तु देवताः कृतमन्दिराः
श्रीपादुकाचतस्रस्तदुत्तरोत्तरमन्दिराः
महापद्माटवौ त्वन्या देवताः कृतमन्दिराः
तिरस्करणिकांबा च तथान्या पञ्चमी परा
श्रीपूर्तिश्च महादेवी श्रीमहापादुकापि च
या विद्यास्ताः समस्ताश्च महापद्माटवीस्थले
उच्चध्वजा उच्चशालास्ससोपानास्तपोधन
दक्षिणे पार्श्वभागेतु मन्त्रिनाथागृहं महत्
ब्रह्मविष्णुमहेशानामर्ध्यस्थानम्य पूर्वतः
ललितामन्त्रजाप्याश्च श्रीदेवीं समुपासते
याम्यद्वारप्रभृतिषु सर्वेष्वपि समं स्मृतम्
तच्छ्रीपट्टनमध्यस्थं योजनद्वयविस्मृतम्
चिन्तामणिशिलाभिश्च च्छादिनीभिस्तथोपरि
गृहभित्तिस्तथोन्नम्रा चतुर्योजनमानतः
ततोर्ध्वं ह्राससंयुक्तं स्थौल्यत्रिमुकुटोज्ज्वला
सदा देदीप्यमानानि चिन्तामणिमयान्यपि
यस्य द्वाराणि चत्वारि क्रोशार्धायामभाञ्जि च
द्वारेषु सर्वेषु पुनश्चिन्तामणिगृहान्तरे
मुहुः प्रवाहरूपेण प्रसरन्ती महामुने
दक्षिणद्वारदेशस्तु दक्षिणाम्नायलक्षणः
उत्तरद्वारदेशः स्यादुत्तराम्नायलक्षणः
परितस्तत्र वर्तन्ते भासयन्तो गृहान्तरम्
अत्युच्चैर्वेदिकाभागे बिन्दुचक्रं महात्तरम्
भित्तिः क्रोशं परित्यज्य क्रोशत्रयमुदाहृतम्
चतुर्विंशतिसाहस्रहस्तैः संमितमुच्यते
अन्तरे भेदिते जाते हस्तसंख्या मयोच्यते
हस्तविंशतिरुन्नम्रं तत्र स्युरणिमादयः
किष्कुश्चतुःशती नल्वकिष्कुर्हस्त उदीर्यते