वरदाह्लादिनी प्रीतिर्दीर्घा चेति हरेः कलाः
उत्कारी मृत्युरप्येता रोद्ध्र्यस्तत्र स्थिताः कालाः
चतस्रेव प्रोक्तास्तु शङ्करस्य कला अथ
इन्दिरा दीपिका चैव रेचिका चैव मोचिका
एतां षोडश संप्रोक्तास्तत्र क्रीडन्ति शक्तयः
शक्तिरुपेण खेलन्ति तत्र विद्याः सहस्रशः
तदर्घ्यममृतं पीत्वा सदा माद्यन्ति शक्तयः
मुहुर्मुहुर्नवनवं मुहुस्चाबद्धसौरभम्
आपूर्यापूर्य सततं तदर्घ्यममृतं महत्
अणिमादिकशक्तीनामर्घ्ययन्ति मदोद्धताः
इत्थ समीरितं पश्चात्तत्रान्यदपि कथ्यते
योजनायामविस्तारं योजनोच्छासचातकम्
परमैश्वर्यजनकः पावनो ललिताज्ञया
कङ्कोलीपल्लवच्छायस्तत्र ज्वलति चिच्छिखी
उभौ तौ नित्यहोतारौ रक्षतः सकलं जगत्
ललिताचोदितः कामः शङ्करेण प्रवर्तितः
चिन्तामणिगृहेन्द्रस्य रक्षोभागेम्बुजाटवौ
नवभिः पर्वभिर्युक्तः सर्वरत्नमयाकृतिः
यथोत्तरे ह्रासयुक्तः स्थूलतः कूबरोज्ज्वलः
तत्त्वैरु पचरद्भिश्च चामरैरभिमण्डितः
भण्डासुरमहायुद्धे कृतसाहसिकक्रियः
चिन्तामणिगृहेन्द्रस्य वायुभागेम्बुजाटवौ
चिन्तामणिगृहेन्द्रस्य रुद्रभागेम्बुजाटवौ
समानमेव विज्ञेयमङ्गस्था देवता यथा
तप्तमेतत्तु गायत्री तप्तं स्याद भयङ्करम्
देवी तुरीयगायत्री चक्षुष्मत्यपि तापस
तारांबिका भगवती तत्पश्चाद्भागतः स्थिताः
नामत्रय पहामन्त्रवाच्यो ऽस्ति भगवान्हरिः
पञ्चाक्षरीमन्त्रवाच्यस्तस्य चाप्युत्तरे शिवः
सरस्वती धारणाख्या ह्यस्य चोत्तरवासिनी